Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 278
________________ शुक्लध्याने चतुर्थध्यातव्यम् १४५ Patarakaratmatatatatasatarataranatakarararakaranatakaratmararararatatara तस्सेव य० गाहा ।। तस्यैव च केवलिनः शैलेशीगतस्य शैलेशी प्राग्वर्णिता तां प्राप्तस्य, किंविशिष्टस्य ? निरुद्धयोगत्वात् शैलेश इव निष्पकम्पस्य मेरोरिव स्थिरस्येत्यर्थः, किम् ? व्यवच्छिन्नक्रियं योगाभावात्, अप्रतिपाति अनुपरतिस्वभावमिति, एतदेव चास्य नाम, ध्यानं परमशुक्लम् प्रकटार्थमिति गाथार्थः ।।८२।। वृ० यत्र ध्याने सूक्ष्मयोगात्मिकाऽपि सूक्ष्मकाययोगरूपाऽपि क्रिया समुच्छिन्ना सर्वथा निवृत्ता तत्समुच्छिन्नक्रियं नाम चतुर्थं ध्यानं प्रोक्तम्, कथंभूतम् ? मुक्तिवेश्मनः सिद्धिसौधस्य द्वारं द्वारोपममिति ।। १०६ ।। -गुणस्थानकक्रमारोहे ।। E तुरीयं तु समुच्छिन्न-क्रियमप्रतिपाति तत् । शैलवनिष्पकम्पस्य, शैलेश्यां विश्ववेदिनः ।। ७९ ।। - अध्यात्मसारे, अ. १६ ।। F x x x । समुच्छिन्नक्रियं ध्यानं तुर्यमार्यः प्रवेदितम् ।।१९८।। - ध्यानदीपिकायाम् ।। २] A इदाणिं सुकं, सुक्के चतुविधे चउप्पडोयारे पण्णत्ते-पुहत्तवितक्के सविचारे १, एगत्तवितक्के अविचारे २, सुहुमकिरिए अणियट्टी ३, समुच्छिण्णकिरिए अप्पडिवाई ४सुत्तणाणे उवउत्तो अत्थंमि य वंजणंमि सवियारं । झायति चोद्दसपुव्वी पढमं सुक्कं सरागो तु ।। १।। सुत्तणाणे उवउत्तो अत्थंमि य वंजणंमि अवियारं । झायति चोद्दसपुव्वी बीयं सुक्कं विगतरागो ।। २ ।। अत्थसंकमणं चेव, तहा वंजणसंकमं । जोगसंकमणं चेव, पढमे झाणे निगच्छती ।। ३ ।। अत्थसंकमणं चेव, तहा वंजणसंकमं । जोगसंकमणं चेव, बितिए ज्झाणे वितक्कती ।। ४ ।। -आवश्यकचूर्णा ।। B कषायदोषमलापगमात् शुचित्वम्, तदनुषङ्गात् शुक्लं ध्यानम् । तञ्च द्विविधम्-शुक्ल-परमशुक्लभेदात् । तत्र पृथक्त्ववितर्कवीचारम् एकत्ववितर्कावीचारं चेति शुक्लं द्विधा । परमशुक्लमपि सूक्ष्मक्रियाप्रतिपाति व्युपरतक्रियानिवर्ति चेति द्विधा । बाह्याध्यात्मिकभेदाच्च एतदपि द्विविधम्-गात्र-दृष्टि-परिस्पन्दाभावः जृम्भोद्गारक्षपथुविरहः अनभिव्यक्तप्राणाऽपानप्रचारत्वमित्यादिगुणयोगि बाह्यम् परेषामनुमेयम् आत्मनश्च स्वसंवेद्यम् । आध्यात्मिकं तु पृथग्भावः पृथक्त्वम्-नानात्वम्, वितर्कः-श्रुतज्ञानम्-द्वादशाङ्गम्, वीचारः-अर्थव्यञ्जन-योगसंक्रान्तिः-व्यञ्जनम्-अभिधानम् तद्विषयोऽर्थः मनोवाक्-कायलक्षणो योगः संक्रान्तिः परस्परतः परिवर्तनम् पृथक्त्वेन वितर्कस्य अर्थ-व्यञ्जन-योगेषु संक्रान्तिर्वीचारः यस्मिन् अस्ति तत् पृथक्त्ववितर्कवीचारम् । तथाहि-असावुत्तमसंहननो भावयति विजृम्भितपुरुषकारवीर्यसामर्थ्यः संहृताशेषचित्तव्याक्षेपः कर्मप्रकृती: स्थित्यनुभागादिभिहासयन् महासंवरसामर्थ्यतो मोहनीयमचिन्त्यसामर्थ्यमशेषमुपशमयन् क्षपयन् वा द्रव्यपरमाणु भावपरमाणुं चैकमवलम्ब्य द्रव्य-पर्यायार्थाद् व्यञ्जनम् व्यञ्जनाद् वा अर्थम् योगाद् योगान्तरम् व्यञ्जनाद् व्यञ्जनान्तरं Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302