Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
शुक्लध्याने तृतीयध्यातव्यम्
१४३
समुद्धातानिवृत्तोऽसौ, मनोवाक्काययोगवान् ।
ध्यायेद्योगनिरोधार्थं, शुक्लध्यानं तृतीयकम् ।। १५ ।। वृ. असौ मनोवाक्काययोगवान् केवली-सयोगिकेवली समुद्धातानिवृत्तः सन् योगनिरोधार्थं योग
निरोधनिमित्तं तृतीयं शुक्लध्यानं ध्यायेत् ।। ९५ ।। अव. अथ तदेव तृतीयं शुक्लध्यानमाह
आत्मस्पन्दात्मिका सूक्ष्मा, क्रिया यत्रानिवृत्तिका ।
तत्तृतीयं भवेच्छुक्लं, सूक्ष्मक्रियानिवृत्तिकम् ।। ९६ ।। वृ० तस्मिन्नवसरे तस्य केवलिनस्तृतीयं सूक्ष्मक्रियाऽनिवृत्तिकनाम शुक्लध्यानं भवति, तत्किम् ?
यत्रात्मस्पन्दात्मिका सूक्ष्मा क्रियाऽनिवृत्तिका भवति, कोऽर्थः ? आत्मस्पन्दात्मिका क्रियापि
सूक्ष्मत्वादनिवृत्तिका भवति, सूक्ष्मत्वं मुक्त्वा पुनः स्थूलत्वं न भजतीत्यर्थः ।। ९६ ।। अव. अथ मनोवचःकाययोगानामपि यथा यथा सूक्ष्मत्वं करोति तथा तथा श्लोकचतुष्टयेनाह
बादरे काययोगेऽस्मिन्, स्थितिं कृत्वा स्वभावतः । सूक्ष्मीकरोति वाञ्चित्त-योगयुग्मं स बादरम् ।। ९७ ।। त्यक्त्वा स्थूलं वपुर्योगं, सूक्ष्मवाक्चित्तयोः स्थितिम् । कृत्वा नयति सूक्ष्मत्वं,काययोगं तु बादरम् ।। ९८ ।। ससूक्ष्मकाययोगेऽथ, स्थितिं कृत्वा पुनः क्षणम् । निग्रहं कुरुते सद्यः, सूक्ष्मवाक्चित्तयोगयोः ।। ९९ ।। ततः सूक्ष्मे वपुर्योगे, स्थितिं कृत्वा क्षणं हि सः ।
सूक्ष्मक्रियं निजात्मानं, चिद्रूपं विन्दति स्वयम् ।। १०० ।। चतुर्भिः कुलकम् । वृ. स केवली सूक्ष्मक्रियाऽनिवृत्तिनामकतृतीयशुक्लध्यानध्याता अचिन्त्यात्मवीर्यशक्तयाऽस्मिन् बादरे
काययोगे स्वभावतः स्थितिं कृत्वा बादरं वाक्चित्तयोगयुग्मं स्थूलवचोमनोयोगयुगलं सूक्ष्मीकरोति ।। ९७ ।। ततः स्थूलं बादरं वपुर्योगं त्यक्त्वा सूक्ष्मवाचित्तयोः स्थितिं कृत्वा बादरं काययोगं सूक्ष्मत्वं प्रापयति ।। ९८ ।। स सूक्ष्मकाययोगे पुनः क्षणं क्षणमात्रं स्थितिं कृत्वा सद्यः तत्कालं सूक्ष्मवाक्चित्तयोनिग्रहं सर्वथा तत्संभवाभावं कुरुते ।। ९९ ।। ततः सूक्ष्मे काययोगे क्षणं स्थितिं हि स्फुटं स केवली निजात्मानं सूक्ष्मक्रियं चिद्रूपं स्वयमात्मनैव विन्दति अनुभवति ।। १०० ।। इति श्लोकचतुष्टयार्थः ।
-गुणस्थानकक्रमारोहे ।। सूक्ष्मक्रियाऽनिवृत्त्याख्यं, तृतीयं तु जिनस्य तत् । अर्द्धरुद्धाऽङ्गायोगस्य, रुद्धयोगद्वयस्य च ।। ७८ ।।
-अध्यात्मसारे, अ. १६ ।। ___F सूक्ष्मक्रियाप्रतिपाति तृतीयं सर्ववेदिनाम् । x x x ।। १९८ ।।
-ध्यानदीपिकायाम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302