Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
१४२
ध्यानशतकम्, गाथा-८१
विश्वतोबाहुरुत विश्वतःपात्" [श्वेताश्वतरोपनिषदि ३/३] इत्यादि ।। ५१ ।। अव. अथ पञ्चमादिसमयेषु कर्तव्यमाह
समयैस्ततश्चतुर्भिनिवर्तते लोकपूरणादस्मात् । विहितायुःसमकर्मा ध्यानी प्रतिलोममार्गेण ।। ५२ ।। ततः पञ्चमसमये पूर्वक्रमात् प्रतिलोमं मन्थान्तराणि जीवप्रदेशरूपाणि सकर्मकाणि संकोचयति । षष्ठे समये मन्थानमुपसंहरति, घनतरसंकोचात् । सप्तमे समये कपाटमुपसंहरति, दण्डात्मनि संकोचात् । अष्टमे समये दण्डमुपसंहत्य शरीरस्थ एव भवति। समुद्धातकाले च मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात् । काययोगस्यैव केवलस्य व्यापारः । तत्रापि प्रथमा-ऽष्टमसमययोरौदारिककायप्राधान्यादौदारिककाययोग एव । द्वितीय-षष्ठ-सप्तमेषु समयेषु पुनरौदारिकाद् बहिर्गमनात् कार्मणवीर्यपरिस्पन्दादौदारिककार्मणमिश्रः । तृतीय-चतुर्थ-पञ्चमेषु औदारिकाद् बहिर्बहुतरप्रदेशव्यापारादसहायकार्मणयोग एव। यदाह“औदारिकप्रयोक्ता प्रथमा-ऽष्टमसमययोरसाविष्ट: । मिश्रौदारिकयोक्ता सप्तम-षष्ठ-द्वितीयेषु ।। १ ।। कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ।। २ ।।
[प्रशमरतौ २७६-२७७] परित्यक्तसमुद्धातश्च कारणवशाधोगत्रयमपि व्यापारयति, यथा-अनुत्तरसुरपृष्टो मनोयोगं सत्यं वाऽसत्यामृषं वा प्रयुङ्क्ते एवमामन्त्राणादौ वाग्योगमपि । नेतरौ द्वौ भेदौ द्वयोरपि । काययोगमप्यौदारिकं फलकप्रत्यर्पणादाविति । ततोऽन्तर्मुहूर्त्तमात्रेण कालेन योगनिरोधमारभते। इह त्रिविधोऽपि योगो द्विविधः- सूक्ष्मो बादरश्च । तत्र केवलोत्पत्तेरुत्तरकालो जघन्येनान्तर्मुहूर्त्तम्, उत्कर्षेण च देशोना पूर्वोकोटिः, तां विहत्यान्तर्मुहूर्तावशेषायुष्कः सयोगकेवली प्रथमं बादरकाययोगेन बादरौ वाङ्मनसयोगी निरुणद्धि । ततः सूक्ष्मकाययोगेन बादरकाययोगं निरुणद्धि । सति तस्मिन् सूक्ष्मयोगस्य रोद्धुमशक्यत्वात् । न हि धावन् वेपथु वारयति । ततश्च सर्वबादरयोगनिरोधानन्तरं सूक्ष्मेण काययोगेन सूक्ष्मौ वाङ्मनसयोगौ निरुणद्धि ।
ततः सूक्ष्मक्रियमनिवर्ति शुक्लध्यानं ध्यायन् स्वात्मनैव सूक्ष्मकाययोगं निरुणद्धि ।। ५२ ।। अव. एतदेवार्यात्रयेणाह
श्रीमानचिन्त्यवीर्यः शरीरयोगेऽथ बादरे स्थित्वा । अचिरादेव हि निरुणद्धि बादरौ वाङ्मनसयोगौ ।। ५३ ।। सूक्ष्मेण काययोगेन काययोगं स बादरं रुन्ध्यात् । तस्मिन्ननिरुद्ध सति शक्यो रोद्धं न सूक्ष्मतनुयोगः ।। ५४ ।। वचनमनोयोगयुगं सूक्ष्म निरुणद्धि सूक्ष्मतनुयोगात् ।
विदधाति ततो ध्यानं सूक्ष्मक्रियमसूक्ष्मतनुयोगम् ।। ५५ ।। वृ० स्पष्टाः ।। ५३-५५ ।।
-योगशास्त्रे, प्र. ११ ।। D अव. अथ समुद्धातानिवृत्तो यत्करोति तदाह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302