Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 274
________________ शुक्लध्याने तृतीयध्यातव्यम् C अव० तृतीयभेदं व्याचष्टे ध्याने दृढार्पिते पर - मात्मनि ननु निष्क्रियो भवति कायः । प्राणापातनिमेषोन्मेषवियुक्तो मृतस्येव ।। १७ ।। ध्यानार्पितोपयोग- स्यापि न वाङ्मनसक्रिये यस्मात् । अन्तर्वर्तित्वादुप-रमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टम् ।। १८ ।। सततं तेन ध्यानेन निरुद्धे सूक्ष्मकाययोगेऽपि । निष्क्रियदेशो भवति, स्थितोऽपि देहे विगतलेश्यः ।। १९ ।। × × × वृ० निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य । सूक्ष्मक्रियाप्रतीपाति तृतीयं कीर्तितं शुक्लम् ।। ८ 11 निर्वाणगमनसमये मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनोयोगवाग्योगद्वये निरुद्धे सति बादरे च काययोगे निरुद्धे सूक्ष्मा उच्च्छासनिःश्वासादिका कायक्रिया यत्र तत्तथा । अप्रतीपाति अनिवर्ति । दरशब्दः प्राकृतवत् संस्कृतेऽपि दृश्यते, यथा- “दरदलितहरिद्राग्रन्थिगौरं शरीरम्" [ 111211 अव तत् किमविशेषेण सर्वोऽपि योगी तृतीयं ध्यानमारभते उतास्ति कश्चिद्विशेषः ? इत्याहआयुः कर्मसकाशादधिकानि स्युर्यदाऽन्यकर्माणि । तत्साम्याय तदोपक्रमेत योगी समुद्धातम् ।। ५० 11 वृ० यावत्यायुः कर्मणः स्थितिः शेषा तावत्येव वेदनीयस्य कर्मणो यदि स्यात्तदा तृतीयं ध्यानमारभते । अथायुःस्थितेः सकाशाद् द्राघीयसी स्थितिर्वेदनीयस्य भवति तदा स्थितिघात- रसघाताद्यर्थं समुद्धतं प्रयत्नविशेषं करोति । यदाह " यस्य पुनः केवलिनः कर्म भवत्यायुषो ऽतिरिक्ततरम् । वृ० अव० तस्य विधिमाह १४१ zaraza स समुद्धातं भगवानथ गच्छति तत् समीकर्तुम् ।। १ ।। " [प्रशमरतौ, २७३ ] इति । समुद्धात इति सम्यगपुनर्भावेन उत् प्राबल्येन हननं घातः शरीराद् बहिर्जीवप्रदेशानां निःसारणम् ।। ५० ।। - तत्त्वार्थ सिद्ध वृत्तौ ।। Jain Education International 2010_02 दण्ड- कपाटे मन्थानकं च समयत्रयेण निर्माय । तुयें समये लोकं निःशेषं पूरयेद्योगी ।। ५१ ।। प्रथमसमय एव स्वहतुल्यविष्कम्भमूर्ध्वमधश्चायतं लोकान्तगामिनं जीवप्रदेशसंघातं दण्डाकारं केवली करोति । द्वितीयसमये च तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति । तृतीयसमये तु तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मन्थानमिव मन्थानं करोति लोकान्तप्रापिणमेव । एवं च लोकस्य प्रायो बहु पूरितं भवति । चतुर्थसमये तु मन्थान्तराण्यपूरितानि अनुश्रेणिगमनात् सह लोकनिष्कुटैः पूरयति । ततश्च सकलो लोको जीवप्रदेशैः पूरितो भवति । लोकपूरणश्रवणाच्च परेषामात्मविभुत्ववादः समुद्भूतः । तथा चार्थवादः- “विश्वतश्चक्षुरुतविश्वतोमुखो For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302