________________
शुक्लध्याने तृतीयध्यातव्यम्
C अव० तृतीयभेदं व्याचष्टे
ध्याने दृढार्पिते पर - मात्मनि ननु निष्क्रियो भवति कायः । प्राणापातनिमेषोन्मेषवियुक्तो मृतस्येव ।। १७ ।। ध्यानार्पितोपयोग- स्यापि न वाङ्मनसक्रिये यस्मात् । अन्तर्वर्तित्वादुप-रमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टम् ।। १८ ।। सततं तेन ध्यानेन निरुद्धे सूक्ष्मकाययोगेऽपि ।
निष्क्रियदेशो भवति, स्थितोऽपि देहे विगतलेश्यः ।। १९ ।। × × ×
वृ०
निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य ।
सूक्ष्मक्रियाप्रतीपाति तृतीयं कीर्तितं शुक्लम् ।। ८ 11 निर्वाणगमनसमये मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनोयोगवाग्योगद्वये निरुद्धे सति बादरे च काययोगे निरुद्धे सूक्ष्मा उच्च्छासनिःश्वासादिका कायक्रिया यत्र तत्तथा । अप्रतीपाति अनिवर्ति । दरशब्दः प्राकृतवत् संस्कृतेऽपि दृश्यते, यथा- “दरदलितहरिद्राग्रन्थिगौरं शरीरम्" [ 111211 अव तत् किमविशेषेण सर्वोऽपि योगी तृतीयं ध्यानमारभते उतास्ति कश्चिद्विशेषः ? इत्याहआयुः कर्मसकाशादधिकानि स्युर्यदाऽन्यकर्माणि ।
तत्साम्याय तदोपक्रमेत योगी समुद्धातम् ।। ५० 11
वृ० यावत्यायुः कर्मणः स्थितिः शेषा तावत्येव वेदनीयस्य कर्मणो यदि स्यात्तदा तृतीयं ध्यानमारभते । अथायुःस्थितेः सकाशाद् द्राघीयसी स्थितिर्वेदनीयस्य भवति तदा स्थितिघात- रसघाताद्यर्थं समुद्धतं प्रयत्नविशेषं करोति । यदाह
" यस्य पुनः केवलिनः कर्म भवत्यायुषो ऽतिरिक्ततरम् ।
वृ०
अव० तस्य विधिमाह
१४१
zaraza
स समुद्धातं भगवानथ गच्छति तत् समीकर्तुम् ।। १ ।। " [प्रशमरतौ, २७३ ] इति । समुद्धात इति सम्यगपुनर्भावेन उत् प्राबल्येन हननं घातः शरीराद् बहिर्जीवप्रदेशानां निःसारणम्
।। ५० ।।
- तत्त्वार्थ सिद्ध वृत्तौ ।।
Jain Education International 2010_02
दण्ड- कपाटे मन्थानकं च समयत्रयेण निर्माय ।
तुयें समये लोकं निःशेषं पूरयेद्योगी ।। ५१ ।।
प्रथमसमय एव स्वहतुल्यविष्कम्भमूर्ध्वमधश्चायतं लोकान्तगामिनं जीवप्रदेशसंघातं दण्डाकारं केवली करोति । द्वितीयसमये च तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति । तृतीयसमये तु तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मन्थानमिव मन्थानं करोति लोकान्तप्रापिणमेव । एवं च लोकस्य प्रायो बहु पूरितं भवति । चतुर्थसमये तु मन्थान्तराण्यपूरितानि अनुश्रेणिगमनात् सह लोकनिष्कुटैः पूरयति । ततश्च सकलो लोको जीवप्रदेशैः पूरितो भवति । लोकपूरणश्रवणाच्च परेषामात्मविभुत्ववादः समुद्भूतः । तथा चार्थवादः- “विश्वतश्चक्षुरुतविश्वतोमुखो
For Private & Personal Use Only
www.jainelibrary.org