________________
१४०
ध्यानशतकम्, गाथा-८१ kararararararatswararareratererekarararelatererstareratererstarerstarsrare
णिव्वाण० गाहा ।। निर्वाणगमनकाले मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनो-वाग्योगद्वये निरुद्धे सति अर्द्धनिरुद्धकाययोगस्य, किम् ? सूक्ष्मक्रियाऽनिवर्ति सूक्ष्मा क्रिया यस्मिंस्तत् सूक्ष्मक्रियम्, सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तितुं शीलमस्येति निवर्ति, प्रवर्द्धमानतरपरिणामान्न निवर्ति अनिवर्ति तृतीयम्, ध्यानमिति गम्यते, तनुकायक्रियस्य इति तन्वी उच्छ्वास-निःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः ।।८१।।
दण्डकपाटकरुचक-क्रिया जगत्पूरणं चतुःसमयम् । क्रमशो निवृत्तिरपि च त-थैव प्रोक्ता चतुःसमया ।। ६ ।। विकसनसङ्कोचनधर्मत्वाज्जीवस्य तत् तथा सिद्धम् । यञ्चाप्यनन्तवीर्य, तस्य ज्ञानं च गततिमिरम् ।। ७ ।। शेषायाः शेषायाः, समये संहत्य सङ्ख्येयान् । भागान् स्थितेरनन्तान्, भागान् शुभानुभावस्य ।। ८ ।। स ततो योगनिरोधं, करोति लेश्यानिरोधमपि काङ्क्षन् । समसमयस्थिति बन्धं, योगनिमित्तं स हि रुरुत्सन् ।। ९ ।। समये समये कर्मा-दाने सति सन्ततेर्न मोक्षः स्यात् । यद्यपि हि न मुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि ।। १० ।। नोकर्माणि हि वीर्य, योगद्रव्येण भवति जीवस्य । तस्यावस्थाने ननु, सिद्धः समयस्थितिबन्धः ।। ११ ।। बादरतनुत्वात् पूर्व, वाङ्मनसे बादरे स निरुणद्धि क्रमेणैव । आलम्बनाय करणं, हि तदिष्टं तत्र वीर्यवतः ।। १२ ।। सत्यप्यनन्तवीर्य-त्वे बादरतनुमपि निरुणद्धि ततः। सूक्ष्मेण काययोगेन न निरुध्यते हि सूक्ष्मो योगः ।। १३ ।। सति बादरे योगे,न हि धावन् वेपथु वारयति । नाशयति काययोगं, स्थूलं सोऽपूर्वफडुकीकृत्य । शेषस्य काययोगस्य तथा कृतीश्च स करोति ।। १४ (?) ।। सूक्ष्मेण काययोगे-न ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततोऽसौ सूक्ष्म-क्रियस्तदाकृतिगतयोगः ।। १५ ।। तमपि स योगं सूक्ष्म, नि-रुत्सन् सर्वपर्ययानुगतम् । ध्यानं सूक्ष्मक्रिय-मप्रतिपात्युपयाति वितमस्कम् ।। १६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org