________________
शुक्लध्याने तृतीयभेदम्
१३९
निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स ।
सुहुमकिरियाऽनियट्टि तइयं तणुकायकिरियस्स ।।१।। RA मू. चतारि झाणा पं० x x x सुक्के झाणे चउन्विहे चउप्पडोआरे.... सुहुमकिरिते अणियट्टी ३, xxx ॥
-स्था.सू. २४७, भग. सू. ८०२, औप. सू. २० ।। वृ० x x x सुहुमकिरिएत्ति निर्वाणगमनकाले केवलिनो निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्यैतद्,
अतः सूक्ष्मा क्रिया कायिकी उच्छ्वासादिका यस्मिंस्तत्तथा, न निवर्त्तते-न व्यावर्त्तत इत्येवंशीलमनिवर्ति प्रवर्द्धमानतरपरिणामादिति, भणितं च - [ध्यानशतके] “निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियहि तइयं तणुकायकिरियस्स ।। ८१ ।।" इति तृतीयः, xxx ।।
-स्थानाङ्गसूत्रवृत्तौ ।। B मू. परे केवलिनः ।। ९-४१ ।। वृ. - xxx तत्र सूक्ष्मक्रियमप्रतिपातीति । सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियम् । तञ्च योगनिरोधकाले
भवति । वेद्य-नाम-गोत्रकर्मणां भवधारणायुष्कादधिकानां समुद्धातसामर्थ्यादचिन्त्यैश्वर्यशक्तियोगादायुष्कसमीकृतानां मनो-वाक्-काययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियपर्याप्तकमनोऽसङ्ख्येयगुणकहीनं सूक्ष्मयोगित्वमप्रतिपात्यच्युतस्वभावम् आव्युपरतक्रियानिवृत्तिध्यानावाप्तेः। उक्तं चअप्रतिपाति ध्यायन्, कश्चित् सूक्ष्मक्रिय विहत्यन्ते । आयुःसमीक्रियाऽर्थं, त्रयस्य गच्छेत् समुद्धातम् ।। १ ।। आर्द्राम्बराशुशोषव-दात्मविसारणविशुष्कसमकर्मा । समयाष्टकेन देहे, स्थित्वा योगात् क्रमाद् द्वन्द्वे ।। २ ।। तथाऽन्य आहआयुषि समाप्यमाने, शेषाणां कर्मणां यदि समाप्तिः । न स्यात् स्थितिवैषम्याद्, गच्छति स ततः समुद्धातम् ।। १ ।। स्थित्या च बन्धनेन, च समीक्रियार्थं हि कर्मणां तेषाम् । अन्तर्मुहूर्तशेषे, तदायुषि समुज्जिघांसति सः ।। २ ।।आर्द्र विरल्लितं सद्, वस्त्रं मक्ष्वेव ननु विनिर्वाति । संवेष्टितं तु न तथा, तथा हि कर्मापि मूर्तत्वात् ।। ३ ।। स्नेहक्षयसाम्यात् (स्थितिबन्धनहेतुर्हि) स्नेहः स च हीयते समुद्धातात् । क्षीणस्नेहं शटति हि भवति तदल्पस्थिति च शेषम् ।। ४ ।। आयुष्कस्यापि विरल्लितस्य, न हास्यते स्थितिः कस्मात् । इति वा चोद्यं चरम-शरीरोऽनुपक्रमायुर्यत् कङ्कटुकवत् ।। ५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org