SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १३८ ध्यानशतकम्, गाथा-८० संप्राप्य केवलज्ञान-दर्शने दुर्लभे ततो योगी । जानाति पश्यति तथा लोकाकोकं यथावस्थम् ।। २३ ।। वृ० ध्यानान्तरे वर्तमान इति शेषः ।। २३ ।। - योगशास्त्रे, प्र. ११ ।। B अव० अथापृथक्त्वमेव व्यक्तमाह - निजात्मद्रव्यमेकं वा, पर्यायमथवा गुणम् । निश्चलं चिन्त्यते यत्र, तदेकत्वं विदुर्बुधाः ।। ७६ ।। वृ. बुधा ज्ञाततत्त्वाः तदेकत्वम् अपृथक्त्वं विदुः अवधारयन्ति स्म कथयन्ति स्म, तत्किम् ? ध्यायकेन यनिजात्मद्रव्यमेकं केवलं स्वकीयविशुद्धपरमात्मद्रव्यं वा अथवा तस्यैव परमात्मद्रव्यस्य एकं केवलं पर्यायं वा अथवा एकमद्वितीयं गुणं वा, तदत्र गुणपर्यायविशेषः पूर्वोक्त एव, एतदेवंविधमेकं द्रव्यमेकं गुणं वा एकं पर्यायं वा, निश्चलं चलनवर्जितं यत्र ध्यायते तदेकत्वमिति ।। ७६ ।। अव० अथाविचारत्वमाह यद्व्यञ्जनार्थयोगेषु, परावर्त्तविवर्जितम् । चिन्तनं तदविचारं, स्मृतं सद्ध्यानकोविदैः ।। ७७ ।। वृ. सम्प्रति सद्ध्यानकोविदत्वं शास्त्राम्नायविशेषादेवास्ति, न त्वनुभवात्, यदाहुः श्री हेमचन्द्रसूरिपादा: अनविच्छित्त्याऽऽम्नायः, समागतोऽस्येति कीर्त्यतेऽस्माभिः। दुष्करमप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् ।। १ ।। तैः सद्ध्यानकोविदैः शास्त्राम्नायावगतशुक्लध्यानरहस्यैस्तद् अविचारम् अविचारविशेषणोपेतं द्वितीयं शुक्लं स्मृतं प्रज्ञप्तम्, तत्किम् ? यत्पूर्वोक्तस्वरूपेषु व्यञ्जनायोगेषु शब्दाभिधेय (शब्दार्थ) योगरूपेषु परावर्त्तविवर्जितं शब्दाच्छब्दान्तरमित्यादिसंक्रमेण रहितं चिन्तनं श्रुतानुसारादेव क्रियते तदविचारमिति ।। ७७ ।। अव. अथ सवितर्कत्वमाह निजशुद्धात्मनिष्ठं हि, भावश्रुतावलम्बनात् । चिन्तनं क्रियते यत्र सवितर्कं तदुच्यते ।। ७८ ।। वृ० यत्र निजशुद्धात्मनिष्ठं स्वकीयातिविशुद्धपरमात्मलीनं हि स्फुटं चिन्तनं सूक्ष्मविचारणात्मकं क्रियते, तत्सवितर्केकगुणोपेतं द्वितीयं शुक्लध्यानम्, कस्मात्? भावश्रुतावलम्बनात् सूक्ष्मान्तर्जल्परूप भावागमश्रुतावलम्बनमात्रचिन्तनादिति ।। ७८ ।।। अव० अथ द्वितीयशुक्लजनितसमरसीभावमाह - इत्येकत्वमविचारं, सवितर्कमुदाहृतम्। तस्मिन् समरसीभावं, धत्ते स्वात्मानुभूतितः ।। ७९ ।। वृ. इति पूर्वोक्तप्रकारेण एकत्वाविचारसवितर्करूपविशेषणत्रयोपेतं द्वितीयं शुक्लं ध्यानमुदाहृतं कथितम्, तस्मिन् द्वितीये शुक्लध्याने वर्तमानो ध्यानीध्यानात् समरसीभावस्तदेकीकरणं मतम् । आत्मा यदपृथक्त्वेन लीयते परमात्मनि ।। १ ।। तं समर सीभावं धत्ते धारयति, कुतः? स्वात्मानुभूतितः स्वस्यात्मनोऽनुभूतिरनुभवनं स्वात्मानुभूतिस्तस्याः ।। ७९ ।। -गुणस्थानकक्रमारोहे ।। ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy