SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ शुक्लध्याने द्वितीयध्यातव्यम् १३७ sataratatarnakstatstaramatalarakanksterstaratatatatatastarakatarsatara अवियार० गाहा ।। तत् किम् ? अत आह - अविचारम् असंक्रमम्, कुतः? अर्थव्यञ्जन-योगान्तरत इति पूर्ववत्, तकमेवंविधं द्वितीयशुक्लं भवति, किमभिधानमिति अत आह - एकत्ववितर्कमविचारम् एकत्वेन - अभेदेन, वितर्क:- व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा इदमपि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथाद्वयार्थः ।।८० ।। जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पाय-ठिइ-भंगाइयाणमेगम्मि पज्जाए ।। ७९ ।। अवियरमत्थवंजणजोगंतरओ तयं बिइयसुक्कं । पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं ।। ८० ।।। -योगशास्त्रे, प्र. ११ ।। D अव. अथ तदेव शुक्लध्यानं सनामविशेषणमाह - अपृथक्त्वमविचारं सवितर्कगुणान्वितम् । स ध्यायत्येकयोगेन, शुक्लध्यानं द्वितीयकम् ।। ७५ ।। वृ. स क्षपकः क्षीणमोहगुणस्थानवी द्वितीयं शुक्लध्यानमेकयोगेन एकतरयोगेन संध्यायति, यदाह एकं त्रियोगभाजामाद्यं स्यादपरमेकयोगवताम् । तनुयोगिनां तृतीयं, नियोगानां चतुर्थं तु ।।१।। कथंभूतम् ? अपृथक्त्वं पृथक्त्ववर्जितम् अविचारं विचाररहितं सवितर्कगुणान्वितं वितर्कमात्रगुणोपेतं द्वितीयं शुक्लध्यानं ध्यायतीत्यर्थः ।।७५।। -गुणस्थानक्रमारोहे ।। E एकत्वेन वितर्केण, विचारेण च संयुतम् । निर्वातस्थप्रदीपाऽऽभं, द्वितीयं त्वेकपर्ययम् ।। ७७ ।। -अध्यात्मसारे, अ. १६ ।। F सवितर्कसविचारं पृथक्त्वं च प्रकीर्तितम् । शुक्लमाद्यं द्वितीयं च विपर्यस्तमतः परम् ।। १९७ ।। - ध्यानदीपिकायाम् ।। R] A तत्र श्रुताद् गृहीत्वैकमर्थमर्थाद् व्रजेच्छब्दम् । शब्दात् पुनरप्यर्थं योगाद्योगान्तरं च सुधीः । १५ ।। संक्रामत्यविलम्बितमर्थप्रभृतिषु यथा किल ध्यानी । व्यावर्तते स्वयमसौ पुनरपि तेन प्रकारेण ।। १६ ।। इति नानात्वे निशिताभ्यासः संजायते यदा योगी । आविर्भूतात्मगुणस्तदैकताया भवेद्योग्यः ।। १७ ।। उत्पाद-स्थिति भङ्गादिपर्ययाणां यदेकयोगः सन् । ध्यायति पर्ययमेकं तत् स्यादेकत्वमविचारम् ।। १८ ।। अव. द्वितीयध्यानस्य फलमाह - ज्वलति ततश्च ध्यानज्वलने भृशमुज्ज्वले यतीन्द्रस्य । निखिलानि विलीयन्ते क्षणमात्राद् घातिकर्माणि ।। २१।। वृ. स्पष्टा ।। २१ ।। अव. घातिकर्माण्याह ज्ञानावरणीयं दृष्ट्यावरणीयं च मोहनीयं च ।। विलयं प्रयान्ति सहसा सहान्तरायेण कर्माणि ।। २२ ।। वृ० स्पष्टा ।। २२ ।। अव० घातिकर्मक्षये फलमाह Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy