________________
१३६
ध्यानशतकम्, गाथा-७९, ८०
श्रुतमुच्यते वितर्कः, पूर्वाभिहितार्थनिश्चितमतेश्च । ध्यानं तदिष्यते येन तेन सवितर्कमिष्टं तत् ।। ३ ।। अर्थव्यञ्जनयोगानां सङ्क्रान्तिरुदितो हि विचारः। तदभावात् तद् ध्यानं, प्रोक्तमविचारमर्हद्भिः ।। ४ ।। व्युत्सर्गविवेकात् सं-मोहाव्ययलिङ्गमिष्यते शुक्लम्। न च सम्भवन्ति कात्स्न्ये-न तानि लिड्गानि मोहवतः।। ५ ।। व्युत्सर्गः सङ्गत्यागः देहोपधीनां विवेकः । प्रीत्यप्रीतिविरहितं, ध्यायंस्तदुपेक्षकः प्रसन्नं सः ।। ६ ।। प्राप्नोति परं ह्रादं, हिमातपाभ्यामिव विमुक्तम् । तेन ध्यानेन यथा-ख्यातेन च संयमेन घातयति ।। ७ ।। शेषाणि घातिकर्माणि युगपदपरञ्जनानि ततः। कात्ान्मस्तकशूच्यां, यथा हतायां हतो भवति तालः।। कर्माणि क्षीयन्ते, तथैव मोहे हते कात्या॑त् ।। ८ ।। निद्राप्रचले द्विचरम-समये तस्य क्षयं समुपयातः । चरमान्ते क्षीयन्ते, शेषाणि तु घातिकर्माणि ।। ९ ।। आवरणचरमसमये, तस्य दयाभावितात्मनो भवति । जीवैस्ततं जगत् प-श्यतो हि भावक्षयोपशमः ।। १०।। शटितप्रायं हि तदा-ऽऽवरणं परमावधिश्च भवति तदा। अथ कात्ात् तत्पतनाद् द्वितीयसमये क्षयायैति ।। ११ ।। तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चा-वरणद्वयसङ्ख्याच्छुद्धम् ।। १२ ।। चित्रं चित्रपटनिभं, त्रिकालसहितं ततः सलोकमिमम् । पश्यति युगपत् सर्वं, सालोकं सर्वभावज्ञम् ।। १३ ।। वीर्यं निरन्तरायं, भवत्यनन्तं तथैव तस्य तदा । कल्पातीतस्य महा- त्मनोऽन्तरायक्षयः कात्या॑त् ।। १४ ।। स ततो वेदयमानो, विहरति चत्वारि शेषकर्माणि । आयुष्यस्य समाप्ति-र्यावत् स्याद् वेद्यमानस्य ।। १५ ।। भाष्यकारस्तु पूर्वविद इति सूत्रावयवं पृथग् विवृणोति सम्बन्धयति । एवमेते शुक्लध्याने पूर्वविदो भवतः ।। ३९ ।।
-तत्त्वार्थ. सिद्ध. वृत्तौ ।। C अव. द्वितीयभेदं व्याचष्टे
एवं श्रुतानुसारादेकत्ववितर्कमेकपर्याये । अर्थव्यञ्जनयोगान्तरेष्वसंक्रमणमन्यत्तु ।।७।। वृ. एवं श्रुतानुसारादिति पूर्वविदां पुर्वगतश्रुतानुसारादितरेषामन्यथापि एकपर्यायविषयमेकत्ववितर्कं
नाम द्वितीयं शुक्लध्यानम्, तशार्थ-व्यञ्जनयोगेष्वसंक्रमणस्वरूपम् । यदाहुः- [ध्यानशतके
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org