________________
शुक्लध्याने द्वितीयध्यातव्यम्
१३५ Patarakstarstarakantaantatasantatwasarataaraataaratastarashare
अवियारमत्थ-वंजण-जोगंतरओ तयं 'बिइयसुक्कं ।
पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं ॥८ ॥ जं पुण० गाहा ।। यत्पुनः मुनिः सुनिष्पकम्पम् विक्षेपरहितं निवातशरणप्रदीप इव निर्गतवातगृहैकदेशस्थदीप इव चित्तम् अन्तःकरणम्, क्व ? उत्पाद-स्थितिभङ्गादीनामेकस्मिन् पर्याये ।।७९ ।।
वृ०
अव. अथाद्यशुक्लध्यानजनितां शुद्धिमाह--
इति त्रयात्मकं ध्यानं, प्रथमं शुक्लमीरितम् ।
प्राप्नोत्यतः परां शुद्धि, सिद्धिश्रीसौख्यवर्णिकाम् ।। ६५ ।। वृ. इति त्रयात्मकं पृथक्त्ववितर्कसविचारात्मकं प्रथमं शुक्लध्यानं कथितम्, तस्माद्ध्यानात् परां प्रकृष्टां शुद्धिं प्राप्नोति, कथंभूताम् ? सिद्धिश्रीसौख्यवर्णिकां मुक्तिलक्ष्मीमुखनिदर्शनिकामासादयतीत्यर्थः ।। ६५ ।।
-गुणस्थानकक्रमारोहे ।। R] A मू. चत्तारि झाणा पं० x x x सुक्के झाणे चउब्विहे चउप्पडोआरे पं० तं० पुहुत्तवितक्के सवियारी १, एगत्तवितक्के अवियारी, x xx ।।।
-स्था. सू. २४७, भग. सू. ८०२, औप. सू. २० ।। तथा 'एगत्तवियक्के 'त्ति एकत्वेन- अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालन्बनतयेत्यर्थो वितर्कः पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कम्, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो निर्वाणगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, उक्तं च -[ध्यानशतके] जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायठिइभंगाइयाणमेगम्मि पज्जाए ।। ७९ ।। अवियारमत्थवंजणजोगंतरओ तयं बिइयसुक्कं । पुव्वगयसुयालंबणमेगत्तवितक्कवियारं ।। ८० ।। " इति द्वितीयः, xxx ।
- स्थानाङ्गसूत्रवृत्तौ ।। B मू. शुक्ले चाद्ये ।। ९-३९ ।। वृ० ___xxx एकस्य भाव एकत्वं , एकत्वगतो वितर्क एकत्ववितर्कः । एक एव योगस्त्रयाणा
मन्यतमस्तथा अर्थो व्यञ्जनं चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तनमुत्पादव्ययघ्रौव्यादिपर्यायाणामेकस्मिन् पर्याय निवातशरणप्रतिष्ठितप्रदीपवन्निष्प्रकम्पम्, पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यञ्जनयोगान्तरेषु तदेकत्ववितर्कमविचारम्। आह च - क्षीणकषायस्थानं, तत् प्राप्य ततो विशुद्धलेश्यः सन् । एकत्ववितर्काविचारं ध्यानं ततोऽध्येति ।। १ ।। एकार्थाश्रयमिष्टं, योगेन च केनचित् तदेकेन। ध्यानं समाप्यते यत्, कालोऽल्पोऽन्तर्मुहूर्तश्च ।। २।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org