________________
१३४
ध्यानशतकम्, गाथा-७९
जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पाय-ट्ठिइ-भंगाइयाणमेगम्मि पज्जाए ।।७९।।
योगा-मनोवाक्कायास्तेषु सङ्क्रमणं सङ्क्रान्तिरेकद्रव्ये अर्थस्वरूपात् व्यञ्जनं व्यञ्जनस्वरूपादर्थं वर्णादिकः पर्यायोऽर्थः व्यञ्जनशब्दः । एतदुक्तं भवति-प्राकशब्दस्ततस्तत्त्वालम्बनमिदमस्य स्वरूपमयमस्य पर्यायस्ततस्तदर्थचिन्तनं साकल्येन, ततः शब्दार्थस्वरूपविशेषचिन्ताप्रतिबन्धः प्रणिधानमर्थसङ्क्रान्तिः, काययोगोपयुक्तध्यानस्य वाग्योगसञ्चारः, वाग्योगोपयुक्तध्यानस्य वा मनोयोगसञ्चारः इत्येवमन्यत्रापि योज्यम् । इत्थंलक्षणो विचार इत्यस्ति वितर्कविचारयोः प्रतिविशेष इति ।।
-तत्वार्थ. सिद्ध. वृत्तौ ।। c अव. अथ तद्विशेषणत्रयस्य स्वरूपमाह--
श्रुतचिन्ता वितर्कः स्यात्, विचारः संक्रमो मतः ।
पृथक्त्वं स्यादनेकत्वं भवत्येतत्त्रयात्मकम् ।। ६१ ।। वृ० एतत्प्रथमं शुक्लध्यानं त्रयात्मकं क्रमोत्क्रमगृहीतविशेषणत्रयरूपम्, तत्र श्रुतचिन्तारूपो वितर्कः,
अर्थशब्दयोगान्तरेषु संक्रमो विचारः, द्रव्यगुणपर्यायादिभिरन्यत्वं पृथक्त्वम् ।। ६१ ।। अव. अथैत्त्रयस्य क्रमेण व्यक्तार्थं व्याचिख्यासुः प्रथमं वितर्कमाह
स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात् ।
अन्तर्जल्यो वितर्कः स्याद्, यस्मिंस्तत्सवितर्कजम् ।। ६२ ।। वृ० यस्मिन् ध्यानेऽन्तर्जल्पोऽन्तरङ्गध्वनिरूपो वितर्को विचारणात्मकस्तत्सवितर्क ध्यानं स्यात्, कस्मात् ?
स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात् स्वकीयनिर्मलपरमात्मतत्त्वानुभवमयान्तरङ्गभावग
तागमावलम्बनतः, इत्युक्तं सवितर्फ ध्यानम्।। ६२ ।। अव. अथ सविचारमाह
अर्थादर्थान्तरे शब्दा-च्छब्दान्तरे च संक्रमः ।
योगाद्योगान्तरे यत्र, सविचारं तदुच्यते ।। ६३ ।। वृ० यत्र ध्याने स एव पूर्वोक्तो वितर्को विचारणात्मकोऽर्थान्तरे संक्रमते, योगायोगान्तरे संक्रमते
तद्धयानं सविचारं ससंक्रमणमुच्यत इति ।। ६३ ।। द्रव्याद् द्रव्यान्तरं याति, गुणाद्याति गुणान्तरम् ।
पर्यायादन्यपर्यायं, सपृथक्त्वं भवत्यतः ।। ६४ ।। वृ० यत्र ध्याने स एव पूर्वोक्तो वितर्कः सविचारोऽर्थव्यञ्जनयोगान्तरसंक्रमणरूपोऽपि निजशुद्धात्मवद् द्रव्यान्तरं
याति, अथवा गुणाद् गुणान्तरं याति, यद्वा पर्यायान्तरं याति, तत्रसहजाता गुणा द्रव्ये, सुवर्णे पीतता यथा । क्रमभूतास्तु पर्याया, मुद्राकुण्डलतादयः ।। १ ।। तेषु द्रव्यगुणपर्यायान्तरेषु अन्यत्वं-पृथक्त्वं तदस्ति यत्र ध्याने तत्सपृथक्त्वम् ।। ६४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org