________________
शक्लध्याने प्रथमध्यातव्यम्
१३३ karatarnatatamarataratarntararatatatarararamataramatatatateraturataterature
सवियार० गाहा ।। तत्किमित्याह – सविचारम् सह विचारेण वर्तत इति सविचारम्, विचारः अर्थ-व्यञ्जन-योगसंक्रम इति, आह च-अर्थ-व्यञ्जन-योगान्तरतः अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगः मनःप्रभृति, एतदन्तरतः एतद्भेदेन सविचारम्, अर्थाद् व्यञ्जनं संक्रामतीति विभाषा, तकद् एतत् प्रथमं शुक्लम् आद्यं शुक्लं भवति, किंनामेत्यत आह - पृथक्त्ववितर्कं सविचारम् पृथक्त्वेन भेदेन, विस्तीर्णभावेनान्ये, वितर्कः - श्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह- अरागभावस्य रागपरिणामरहितस्येति गाथाद्वयार्थः । ७८ ।।
श्रुतानुसारिणीत्यर्थः । पूर्वं च पूर्वं च पूर्वे ध्याने । एतदेव निश्चिनोति- प्रथमद्वितीये इति पृथक्त्ववितर्कमेकत्ववितर्कं च । तत्र-तयोर्यत् प्रथमम्-आद्यं पृथक्त्ववितर्कं तत् सविचारं सह विचारेण सविचारं सह सङ्क्रान्त्येति यावत् । वक्ष्यति [अ० ९, सू० ४६] “विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" । कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते ? अविचारं द्वितीयमिति वचनादर्थलभ्यं प्रथमं सविचारमिति । अविचारं द्वितीयम् । अविद्यमानविचारम् अविचारम्, अर्थव्यञ्जनयोगसङ्क्रान्तिरहितमित्यर्थः ।
द्वितीयमिति सूत्रक्रमप्रामाण्यादेकत्ववितर्कमविचारम् भवति ध्यानमिति ।। ४४ ।। भा. अत्राह-वितर्कविचारयोः कः प्रतिविशेष इति ?। अत्रोच्यतेवृ. अत्राहेत्यादि वितर्कविचारयोर्विशेषमजानानः स्वरूपमवगच्छन् परः पृच्छति-कः प्रतिविशेष इति ।
प्रतिशब्दस्तत्त्वाख्यायां वर्तते । यथा-शोभनश्चैत्रः प्रतिमातरमेवं प्रतिविशेषः स्वरूपमितरेतरव्यावृत्तं तत्त्वं वितर्कविचारयोः कीदृगिति तत्त्वमाख्यायताम्। अत्रोच्यत इत्याह
-तत्त्वार्थ. सिद्ध. वृत्तौ ।। ३] A मू. वितर्कः श्रुतम् ।। ९-४५ ।।
भा० यथोक्तं श्रुतज्ञानं वितर्को भवति ॥ ४५ ।। वृ. वितकों-मतिज्ञानं विकल्पः । वितय॑ते-येनालोच्यते पदार्थः स वितर्कः तदनुगतं श्रुतं वितर्कः तदभेदाद्
विगतं तर्क वा वितर्कम्, संशयविपर्ययोपेतं श्रुतज्ञानमित्यर्थः । इदमेव सत्यमित्यविचलितस्वभावम् । यथोक्तमिति पूर्वगतमेव, नेतरत् । श्रुतज्ञानमाप्तवचनं वितर्क उच्यते इति ।। ४५ ।।
-तत्त्वार्थ. सिद्ध. वृत्तौ ।। अव. विचारस्वरूपनिरूपणायाह - B मू० विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः ।।९-४६।। भा. अर्थव्यञ्जनयोगसङ्क्रान्तिर्विचार इति । एतदभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधकं
निर्जरणफलत्वात् कर्मनिर्जरकम् । अभिनवकर्मोपचयप्रतिषेधकत्वात् पूर्वोपचितकर्मनिर्जरकत्वाच
निर्वाणप्रापकमिति ।।४६।। वृ० अर्थव्यञ्जनयोोगेषु च सङ्क्रमणं सङ्क्रान्तिः । अर्थः-परमाण्वादिः, व्यञ्जनं तस्य वाचकः शब्दः,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org