________________
१३२
ध्यानशतकम्, गाथा-७७, ७८ રે
રે
રે
સર उप्पायट्ठिइ० गाहा ।। उत्पाद-स्थिति-भङ्गादिपर्यायाणाम् उत्पादादयः प्रतीताः, आदिशब्दान्मूर्ता-ऽमूर्तग्रहः, अमीषां पर्यायाणां यदेकस्मिन् द्रव्ये अण्वात्मादौ, किम् ? नानानयैर्द्रव्यास्तिकादिभिरनुस्मरणं चिन्तनम्, कथम् ? पूर्वगतश्रुतानुसारेण पूर्वविदः, मरुदेव्यादीनां त्वन्यथा ।।७७।।
शुक्लमिति संबन्धः। कथंभूतम् ? अर्थ-व्यञ्जन-योगान्तरेषु संक्रमणयुक्तम् । अर्थो द्रव्यम्, तस्माद्व्यञ्जने शब्दे शब्दाञ्चार्थे संक्रमणम्, योगाद् योगान्तरसंक्रमणं तु मनोयोगात् काययोगे वाग्योगे वा संक्रान्तिः, एवं काययोगान्मनोयोगे वाग्योगे वा, वाग्योगान्मनोयोगे काययोगे वा संक्रमणम्, तेन युक्तम् । यदाहुः"उप्पाय-ठिई-भंगाइपज्जवाणं जमेगदव्वम्मि । नाणानयानुसरणं पुव्वगयसुयाणुसारेण ।। ७७ ।। सवियारमत्यवंजणजोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवियकं सवियारमरागभावस्स ।। ७८ ।। [ध्यानशतके] ननु अर्थ-व्यञ्जन-योगान्तरेषु संक्रमणात् कथं मनःस्थैर्यम् ? तदभावाच्च कथं ध्यानत्वम् ? उच्यते
- एकद्रव्यविषयत्वे मनःस्थैर्यसंभवाद् ध्यानत्वमविरुद्धम् ।। ६ ।। -योगशास्त्रे, प्र. ११ ।। D अव. अथाद्यशुक्लध्यानस्य नामाह
सवितर्क सविचारं सपृथक्त्वमुदाहृतम् । त्रियोगयोगिनः साधोराद्यं शुक्लं सुनिर्मलम् ।। ६० ।। वृत्रियोगयोगिनः साधोर्मनोवचःकाययोगवतो मुनेः आद्यं प्रथमं शुक्लध्यानम् उदाहतं प्रोक्तम्,
तत्कथंभूतम् ? सह वितर्केण वर्त्तत्ते इति सवितर्कम्, सह विचारेण वर्तते इति सविचारम्, सह पृथक्त्वेन वर्त्तत इति सपृथक्त्वम्, इति विशेषणत्रयोपेतत्वात् पृथक्त्ववितर्कसविचारनामकं प्रथमं शुक्लध्यानमिति ।। ६० ।।
-गुणस्थानकक्रमारोहे ।। E सवितर्क सविचारं, सपृथक्त्वं तदाऽऽदिमम् । नानानयाऽऽश्रितं तत्र, वितर्कः पूर्वगं श्रुतम् ।। ७४ ।।
अर्थव्यञ्जनयोगानां, विचारोऽन्योऽन्यसङ्क्रमः । पृथक्त्वं द्रव्यपर्याय-गुणाऽन्तरगतिः पुनः ।। ७५ ।। त्रियोगयोगिनः साधो-वितर्काद्यन्वितं ह्यदः । ईषञ्चलत्तरङ्गाऽब्धेः, क्षोभाऽभावदशानिभम् ।। ७६ ।।
-अध्यात्मसारे, अ. १६ ।। F सवितर्कसविचारं पृथक्त्वं च प्रकीर्तितम् । शुक्लमाद्यं द्वितीयं च विपर्यस्तमतः परम् ।। १९७ ।।
- ध्यानदीपिकायाम् ।। २] मू. एकाश्रये सवितर्के पूर्वे ।। ९-४४ ।। भा० एकद्रव्याश्रये सवितकें पूर्वे ध्याने प्रथमद्वितीये । तत्र सविचारं प्रथमम्, अविचारं द्वितीयम्,
अविचारं सवितर्कं द्वितीयं ध्यानं भवति ।। ४४ ।। वृ. एक आश्रय-आलम्बनं ययोस्ते एकाश्रये एकद्रव्याश्रये इति पूर्वविदाराभ्ये मतिगर्भश्रुतप्रधान
व्यापाराच्चैकाश्रयतापरमाणुद्रव्यमेकमालम्ब्यात्मादिद्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्यानमिति “वितर्कः श्रुतम्" वक्ष्यति [अ० ९, सू० ४५] इति । सह वितर्केण सवितर्कम्, पूर्वगत
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org