________________
शुक्लध्याने प्रथमध्यातव्यम्
માં
C
वृ०
x x x अथ शुक्लमाह-पुहुत्तवितक्के त्ति पृथक्त्वेन - एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्को विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम् - अर्थाद् व्यञ्जने व्यञ्जनादर्थे ततो मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो 'विचारोऽर्थ - व्यञ्जन-योगसङ्क्रान्ति 'रिति [ तत्त्वा० अ० ९ सू० ४६ ] वचनात् सह विचारेण सविचारि, सर्वधनादित्वादिन्समासान्तः, उक्तं च - [ ध्यानशतके ]
66
“ उप्पायठितिभंगाई पज्जयाणं जमेगदव्वंमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ।। ७७ 11 सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं । होंति पुहुत्तवियक्कं सवियारमरागभावस्स ।। ७८ ।।” इत्येको भेदः x x x 11 स्थानाङ्गसूत्रवृत्तौ ।।
B मू० शुक्ले चाद्ये ।। ९-३९ ।।
भा० शुक्ले चाद्ये ध्याने पृथक्त्ववितर्कैकत्ववितर्के चोपशान्तक्षीणकषाययोर्भवतः ।। ३९ ।। वृ० शुक्ले चाद्ये इति । शुक्ले ध्याने उपशान्तक्षीणकषाययोर्भवतः । के पुनस्ते ? पृथक्त्वैकत्ववितर्के । स्वरूपतः कीदृशे । उच्यते- पृथग्-अयुतकं भेदः तद्भावः पृथक्त्वम्- अनेकत्वं तेन सह गतो वितर्कः, पृथक्त्वमेव वा वितर्कः सहगतं वितर्कपुरोगं पृथक्त्ववितर्कम् । तच्च परमाणुजीवादावेकद्रव्ये उत्पादव्ययध्रौव्यादिपर्यायानेकतयाऽपि तत्त्वं तत् पृथक्त्वं पृथक्त्वेन पृथक्त्वे वा तस्य चिन्तनं वितर्कसहचरितं सविचारं च यत् तत् पृथक्त्ववितर्कं सविचारं तच्च पृथक्त्वमर्थव्यञ्जनयोगानां वक्ष्यति - "तत् त्र्येककाययोगायोगानाम्", "वितर्कः श्रुतम्”, “विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः " [अ० ९, सू० ४३४५, ४६] । पूर्वगतभङ्गिकश्रुतानुसारेणार्थव्यञ्जन-योगान्तरप्राप्तिः- गमनं विचारः । अर्थाद् व्यञ्जनसङ्क्रान्तिः व्यञ्जनादर्थसङ्क्रान्तिः मनोयोगात् काययोगसङ्क्रान्तिर्वाग्योगसङ्क्रान्तिर्वा । एवं काययोगान्मनोयोगं वाग्योगं वा सङ्क्रामति । तथा वाग्योगान्मनोयोगं काययोगं वेति । यत्र सङ्क्रामति तत्रैव निरोधो ध्यानमिति x x x 11 - तत्त्वार्थ सिद्ध वृत्तौ ।।
वृ०
अव० शुक्लध्यानस्य भेदानाह
ज्ञेयं नानात्वश्रुतविचारमैक्यश्रुताविचारं च । सूक्ष्मक्रियमुत्सन्नक्रियमिति भेदैश्चतुर्धा तत् ।। ५ ।। नानात्वं पृथक्त्वम्, श्रुतं वितर्कः, विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः इति पृथक्त्ववितर्कं सविचारं प्रथमम् । ऐक्यमपृथक्त्वम्, एकत्ववितर्कमविचारं च द्वितीयम् । सूक्ष्मक्रियमप्रतिपातीति तृतीयम् । उत्सन्नक्रियमनिवर्तीति चतुर्थम् । एवं चतुर्विधं शुक्लध्यानम् ।। ५ ।।
अव० अथाद्यभेदं व्याचष्टे
१३१
Zara
-
Jain Education International 2010_02
एकत्र पर्यायाणां विविधनयानुसरणं श्रुताद् द्रव्ये ।
अर्थव्यञ्जनयोगान्तरेषु संक्रमणयुक्तमाद्यं तत् ।। ६ ।।
वृ० एकस्मिन् परमाण्वात्मादौ द्रव्ये पर्यायाणामुत्पाद-स्थिति-भङ्ग-मूर्त्तत्वाऽमूर्त्तत्वादीनां विविधनयैर्द्रव्यार्थिकपर्यायार्थिकादिभिर्यदनुसरणमनुचिन्तनम् श्रुतात् पूर्वविदां पूर्वगतश्रुतानुसारेण, इतरेषां त्वन्यथा,
तदाद्यं
For Private & Personal Use Only
www.jainelibrary.org