Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 273
________________ १४० ध्यानशतकम्, गाथा-८१ kararararararatswararareratererekarararelatererstareratererstarerstarsrare णिव्वाण० गाहा ।। निर्वाणगमनकाले मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनो-वाग्योगद्वये निरुद्धे सति अर्द्धनिरुद्धकाययोगस्य, किम् ? सूक्ष्मक्रियाऽनिवर्ति सूक्ष्मा क्रिया यस्मिंस्तत् सूक्ष्मक्रियम्, सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तितुं शीलमस्येति निवर्ति, प्रवर्द्धमानतरपरिणामान्न निवर्ति अनिवर्ति तृतीयम्, ध्यानमिति गम्यते, तनुकायक्रियस्य इति तन्वी उच्छ्वास-निःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः ।।८१।। दण्डकपाटकरुचक-क्रिया जगत्पूरणं चतुःसमयम् । क्रमशो निवृत्तिरपि च त-थैव प्रोक्ता चतुःसमया ।। ६ ।। विकसनसङ्कोचनधर्मत्वाज्जीवस्य तत् तथा सिद्धम् । यञ्चाप्यनन्तवीर्य, तस्य ज्ञानं च गततिमिरम् ।। ७ ।। शेषायाः शेषायाः, समये संहत्य सङ्ख्येयान् । भागान् स्थितेरनन्तान्, भागान् शुभानुभावस्य ।। ८ ।। स ततो योगनिरोधं, करोति लेश्यानिरोधमपि काङ्क्षन् । समसमयस्थिति बन्धं, योगनिमित्तं स हि रुरुत्सन् ।। ९ ।। समये समये कर्मा-दाने सति सन्ततेर्न मोक्षः स्यात् । यद्यपि हि न मुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि ।। १० ।। नोकर्माणि हि वीर्य, योगद्रव्येण भवति जीवस्य । तस्यावस्थाने ननु, सिद्धः समयस्थितिबन्धः ।। ११ ।। बादरतनुत्वात् पूर्व, वाङ्मनसे बादरे स निरुणद्धि क्रमेणैव । आलम्बनाय करणं, हि तदिष्टं तत्र वीर्यवतः ।। १२ ।। सत्यप्यनन्तवीर्य-त्वे बादरतनुमपि निरुणद्धि ततः। सूक्ष्मेण काययोगेन न निरुध्यते हि सूक्ष्मो योगः ।। १३ ।। सति बादरे योगे,न हि धावन् वेपथु वारयति । नाशयति काययोगं, स्थूलं सोऽपूर्वफडुकीकृत्य । शेषस्य काययोगस्य तथा कृतीश्च स करोति ।। १४ (?) ।। सूक्ष्मेण काययोगे-न ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततोऽसौ सूक्ष्म-क्रियस्तदाकृतिगतयोगः ।। १५ ।। तमपि स योगं सूक्ष्म, नि-रुत्सन् सर्वपर्ययानुगतम् । ध्यानं सूक्ष्मक्रिय-मप्रतिपात्युपयाति वितमस्कम् ।। १६ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302