Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
शुक्लध्याने द्वितीयध्यातव्यम्
१३७ sataratatarnakstatstaramatalarakanksterstaratatatatatastarakatarsatara
अवियार० गाहा ।। तत् किम् ? अत आह - अविचारम् असंक्रमम्, कुतः? अर्थव्यञ्जन-योगान्तरत इति पूर्ववत्, तकमेवंविधं द्वितीयशुक्लं भवति, किमभिधानमिति अत
आह - एकत्ववितर्कमविचारम् एकत्वेन - अभेदेन, वितर्क:- व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा इदमपि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथाद्वयार्थः ।।८० ।।
जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पाय-ठिइ-भंगाइयाणमेगम्मि पज्जाए ।। ७९ ।। अवियरमत्थवंजणजोगंतरओ तयं बिइयसुक्कं । पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं ।। ८० ।।।
-योगशास्त्रे, प्र. ११ ।। D अव. अथ तदेव शुक्लध्यानं सनामविशेषणमाह -
अपृथक्त्वमविचारं सवितर्कगुणान्वितम् । स ध्यायत्येकयोगेन, शुक्लध्यानं द्वितीयकम् ।। ७५ ।। वृ. स क्षपकः क्षीणमोहगुणस्थानवी द्वितीयं शुक्लध्यानमेकयोगेन एकतरयोगेन संध्यायति, यदाह
एकं त्रियोगभाजामाद्यं स्यादपरमेकयोगवताम् । तनुयोगिनां तृतीयं, नियोगानां चतुर्थं तु ।।१।। कथंभूतम् ? अपृथक्त्वं पृथक्त्ववर्जितम् अविचारं विचाररहितं सवितर्कगुणान्वितं
वितर्कमात्रगुणोपेतं द्वितीयं शुक्लध्यानं ध्यायतीत्यर्थः ।।७५।। -गुणस्थानक्रमारोहे ।। E एकत्वेन वितर्केण, विचारेण च संयुतम् । निर्वातस्थप्रदीपाऽऽभं, द्वितीयं त्वेकपर्ययम् ।। ७७ ।।
-अध्यात्मसारे, अ. १६ ।। F सवितर्कसविचारं पृथक्त्वं च प्रकीर्तितम् । शुक्लमाद्यं द्वितीयं च विपर्यस्तमतः परम् ।। १९७ ।।
- ध्यानदीपिकायाम् ।। R] A तत्र श्रुताद् गृहीत्वैकमर्थमर्थाद् व्रजेच्छब्दम् । शब्दात् पुनरप्यर्थं योगाद्योगान्तरं च सुधीः । १५ ।।
संक्रामत्यविलम्बितमर्थप्रभृतिषु यथा किल ध्यानी । व्यावर्तते स्वयमसौ पुनरपि तेन प्रकारेण ।। १६ ।। इति नानात्वे निशिताभ्यासः संजायते यदा योगी । आविर्भूतात्मगुणस्तदैकताया भवेद्योग्यः ।। १७ ।। उत्पाद-स्थिति भङ्गादिपर्ययाणां यदेकयोगः सन् । ध्यायति पर्ययमेकं तत् स्यादेकत्वमविचारम् ।। १८ ।। अव. द्वितीयध्यानस्य फलमाह -
ज्वलति ततश्च ध्यानज्वलने भृशमुज्ज्वले यतीन्द्रस्य ।
निखिलानि विलीयन्ते क्षणमात्राद् घातिकर्माणि ।। २१।। वृ. स्पष्टा ।। २१ ।। अव. घातिकर्माण्याह
ज्ञानावरणीयं दृष्ट्यावरणीयं च मोहनीयं च ।।
विलयं प्रयान्ति सहसा सहान्तरायेण कर्माणि ।। २२ ।। वृ० स्पष्टा ।। २२ ।। अव० घातिकर्मक्षये फलमाह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302