Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 254
________________ १२१ शुक्लध्याने आलम्बनानि Pantaraastarsssssssansasaramatarakarakarakararatatakarakara भेदाः । इमानीति प्रत्यक्षीकरोति । परस्यानुभवमुत्पादयति- .. भा० तद्यथा-जातिः १ कुलं २ रूपम् ३ ऐश्वर्य ४ विज्ञानं ५ श्रुतं ६ लाभः ७ वीर्यम् ८ इति ।। वृ० तद्यथेत्यादिनोदाहरति । जात्यादीनि वीर्यान्तान्यष्टौ स्थानानि । तत्र जातिः पित्रन्वयः प्रख्याततमवंशता जातिर्जन्मात्मलाभ: पञ्चेन्द्रियादिलक्षणा वा तया गर्वमुद्वहति विशिष्टजातिरहमिति । विदितकर्मपरिणामस्तु निरुणद्धि जातिमदं, स्वकृतकर्मफलानुभाजो जीवा नानाजातीरुञ्चावचाः प्रपद्यन्ते इति न श्रेयान् जातिमदः। मात्रन्वयः कुलमुग्रभोजादि वा। तेनापि मदो न युक्त एव जात्यादिभावनावदिति रूपं शरीरावयवानां सन्निवेशविशेषो लवण्ययुक्तस्तेनापि कष्टिान्माद्यति, तत्प्रतिषेधस्त्वाद्युत्तरकारणालोचनाद् भवति। तत्राद्यं कारणं मातुरोजः पितुः शुक्रम्, उत्तरकारणं जननीग्रस्तान्नपानरसाभ्यवहारो रसहरण्येत्येवमामृशतो न प्रतिभाति रुपमदः । त्वग्-मांसा-ऽस्थि-पुरीष-पूयाद्यशुभप्रायत्वात्। ऐश्वर्यमदो धनधान्यसम्पत्प्रभवः । धनं रजत-चामीकर-मरकतादि गो-महिष्य-ऽजाविकादि च, व्रीहितिल-मुद्ग-माष-कङ्ग्वादि धान्यं तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्ष्यमाणेन क्लेशकारिणा अकाण्डभगुरेणाऽऽयत्यामायासबहुलेन को मद इत्येवं प्रत्याचक्षीत । वाचकेन त्वेतदेव बलसंज्ञया प्रशमरतावुपात्तम् । तच्च त्रिधाः शरीर-स्वजन-द्रव्यबलम् । इहैश्वर्यग्रहणात् स्वजनद्रव्यबलपरिग्रहः । शरीरबलं तु वीर्यग्रहणात् पृथग् गृहीतं वीर्यबलस्य प्राधान्यप्रकाशनार्थम् । विज्ञानं बुद्धिष्टातुर्विधा-औत्पत्तिकी, वैनयिकी, कर्मजा, पारिणामिकी चेति । तत्रौत्पत्तिकी अदृष्टाश्रुतपूर्ववस्तुन्युपनते तत्क्षण एव समासादितोपजना (?) अव्याहतफला भरतरोहकादेरिव भवति । गुर्वादिविनयानुष्ठानाभ्यासविशेषप्रभवा वैनयिकी ऐहिकामुष्मिकफलसम्पादिनी प्रस्तुतकार्यनिस्तरणसमर्था धर्मादित्रिवर्गशास्त्रार्थग्राहिणी च पुत्रागमनकाणहस्तिनीपरिज्ञाननैमित्तिकस्यैव । कर्मजा पुनः धीः साधुकारफला, अनाचार्यकं कर्म, तत्र पुनःपुनरुपयोगात् प्रतिक्षणमभ्यस्यतस्तादृशी बुद्धिरुत्पद्यते येन प्रथमादिकृतकर्मातिशायि पाष्टात्यं कर्मोपजायते, सौवर्णिककृषीवलतन्तुवायादेरिव । पारिणामिकी तु वयोविपाकलब्धजन्मा परमहितनिःश्रेयसफला पञ्चावयवादिसाधनानुसारिणी भवत्यभयकुमारादेरिव यथासम्भवम् । इत्थं लब्धया बुद्ध्या अहमेव बुद्धिमानिति मन्यमान: परिभवति शेषं जनम् । मदसमुद्धतस्य परपरिभवपरिवादादात्मोत्कर्षाच्चाशुभं कर्म नीचैर्गोत्रादि बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति सापायमवग(म)त्य बुद्धिगर्वमित्थं विचिन्तयेत्-बुद्धयो हि विनयाधानहेतवः सर्वदा,न जातुचित् अहङ्कारस्य कारणीभवन्ति। मानपरस्य च विनयखण्डनमवश्यम्भावि। विनयहीनस्य च धर्मतपसी निष्फले स्यातामिति विज्ञानमदो यत्नेन महता विवर्जनीयः । श्रुतम् आप्तप्रणीत आगमः तत्परिज्ञानान्माद्यति अहमेवैको जाने, नापर इति । श्रुतमदान्धष्टा बालिशमेव परं मन्यते, श्रुतमदं च निजिघृक्षुरित्थमालोचयेत् प्रकर्षापकर्षवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः, कदाचिदहमन्य-भ्योऽल्पतरश्रुतोऽतिगहनार्थत्वादागमानामधिगतश्रुतोऽपि वा दुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् । अपि च- चतुर्दशपूर्वधरेष्वपि षट्स्थानकमवधुष्यते यदि, तत्र का कथा शेषश्रुतधरे श्रुतज्ञानावरणक्षयोपशमवैचित्र्याद्, अधिगतसकलश्रुतेनापि परिहार्यः श्रुतमद इति ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302