Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 257
________________ १२४ ध्यानशतकम्, गाथा-६९ विश्रम्यभाषण, सविच्छेदत्वाच्च श्रोतुरनादरवाक्यव्याहरणाच्छ्रवणवैरस्यं करोति । न विरलमविरलमनुसन्ततमिति । सभ्रान्तं तु त्रासकरम्, न सम्भ्रान्तमसम्भ्रान्तम् अतित्वरितं वा सम्भ्रान्तमनुच्छ्वसन भाषते च यद् अव्यक्तवर्णपदलोपत्वादप्रत्यायकं वा श्रुतिविरसाक्षरमप्ररोचकमेव स्यात् । मधुरमिति प्रसन्नपदघटितं श्रुतिसुखम्, सुखावबोधार्थं च अनभिमान-विनयसहितम् अभिजातं-सप्रश्रयं सविनयम् सन्दिग्धम्आकाङ्क्षाविनिवर्तने अक्षमं तद्विपरीतमसन्दिग्ध-माकाङ्क्षाविच्छेदकारि, निराकाङ्क्षमिति । अस्फुटम् अनिष्टिातार्थत्वादालूनविशीर्णप्रायम्, (वि)निष्टिातार्थं तु स्फुटम् । अनौदार्यम्-अत्यौद्धत्यप्रदीपकम्, तद्विपरीतमौदार्यम्, अप्रधानार्थम् अनौदार्यम् उदारार्थप्रतिबद्धत्वादुदारं तद्भाव औदार्यं तद्युक्तमौदार्ययुक्तम् । विद्वज्जनमनोऽनुरञ्जनेऽसमर्थं ग्राम्यम्, न ग्राम्यमग्राम्यम् । पदार्थाटा विवक्षितानभिव्याहरतीति पदार्थाभिव्याहारम्, अग्राम्यत्वात् पदार्थानभिख्याहरतीति । विद्वज्जनाभिमतानित्यग्राम्यपदार्थाभिव्याहारम्, सीभरं विकत्थनं विमर्दकरम्, न सीभरमसीभरं आश्वेव प्रस्तुतार्थपरिसमाप्तिकारि । अरागद्वेषयुक्तमिति मायालोभाभ्यां कोपमानाभ्यां चायुक्तम् ।। - तत्वार्थ. सिद्ध. वृत्तौ ।। B अव० क्षान्तेः प्राधान्यदर्शनार्थमाह धर्मस्य दया मूलं, न चाक्षमावान् दयां समाधत्ते । तस्माद् यः क्षान्तिपरः, स साधयत्युत्तमं धर्मम् ।। १६८ ।। वृ. धर्मस्य दशप्रकारस्य दया मूलं । न चाक्षमावान् दयां समाधत्ते करोति । तस्मात् यः क्षान्तिपरः स साधयत्युत्तमं धर्ममिति ।। १६८ ।। अव० मार्दवमाह विनयायत्ताश्च गुणाः, सर्वे विनयश्च मार्दवायत्तः । यस्मिन् मार्दवमखिलं, स सर्वगुणभाक्त्वमाप्नोति ।। १६९ ।। वृ० विनयायत्ता गुर्वभ्युत्थाद्याधीना गुणा ज्ञानादयः सर्वे, विनयश्च मार्दवायत्तो मृदुत्वाधीनो यस्मिन् मार्दवमखिलं समस्तं स प्राणी सर्वगुणभाक्त्वं समस्तज्ञानाद्याश्रयतामाप्नोति लभते, तस्मान्मार्दवं कार्यमिति ।। १६९ ।। अव. आर्जवमाह नाऽनार्जवो विशुध्यति, न धर्ममाराधयत्यशुद्धात्मा । धर्मादृते न मोक्षो, मोक्षात् परमं सुखं नान्यत् ।। १७० ।। वृ० यत् नाऽनार्जवो मायावान् विशुध्यति, न च धर्ममाराधयति निष्पादयत्यशुद्धात्मा संक्लिष्टजीवो धर्मादृते न मोक्षो धर्मं विना न मुक्तिः, ऋते अत्रापि योगात्, मोक्षादृते परमं सुखं नास्ति न विद्यतेऽन्यदिति ।। १७० ।। अव० शौचमाह Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302