Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 255
________________ १२२ ध्यानशतकम्, गाथा - ६९ 222222 लम्भनं लाभः प्राप्तिर्विशिष्टफलस्य सत्कारसन्मानादेः नृपतिसन्मित्रभृत्यस्वजनेभ्यो विज्ञान- तपो ऽभिजनशौर्याद्याधिक्यादहं लभेयम्, अपरः प्रयत्नवानपि न लभत इति स्वलाभेन माद्यति । तथा सकलजनवल्लभतां च प्राप्तोऽहम्, अयमपरो न कस्मैचिद् रोचते, वचनमप्यस्य नादरयन्तीति सर्वोऽप्ययं लाभमदः । स चैवं निगृहीतव्यो भान्तरायकर्मोदयादलाभो लाभान्तरायकर्मक्षयोपशमाञ्च सत्कारादिलाभः, संसारे परिभ्रमतो जीवस्य कादाचित्को न तु शाश्वतः, कर्मायत्तत्वात्, संसारानुबन्ध्येवेति लाभमदत्यागः श्रेयस्करः । वाल्लभ्यकप्राप्तिरपि कर्मोदयजनितैव, संसारिणां च सुलभेति वाल्लभ्यकलाभमदः परिवर्जनीय इति । भा० एभिर्जात्यादिभिरष्टाभिर्मदस्थानैर्मत्तः परात्मनिन्दाप्रशंसाभिरतः तीव्राहङ्कारोपहतमतिरिहामुत्र च अशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादेषां मदस्थानानां निग्रहो मार्दवं धर्म इति ॥२॥ वृ० वीर्यं पराक्रमः शक्तिरुत्साहः सामर्थ्यातिशयवती चेष्टेति पर्यायाः । वीर्यान्तरायक्षयोपशमात् प्रादुरस्ति वीर्यं-बलविशेषस्तेन वीर्येण माद्यतीति वीर्यमदः, तस्य प्रतिक्षेपः संसारानुबन्धित्वचिन्तनात्, संसारानुबन्धी वीर्यमदः कषायरूपत्वात्, वीर्यस्य चाशाश्वतत्वात् । तथाहि बलिनोऽपि पुरुषाः क्षणेन निर्बलतामुपयान्तो दृश्यन्ते, निर्बलाष्टा बलवन्तः संस्कारवशादाशु जायन्ते तथा व्याधि-जरा-मृत्युषूद्भूतबलेषु चक्रवर्तिहरिसीरिणोऽपि सीदन्ति ससुरासुराः, किमुतान्ये पृथग्जना इति ? वीर्यमदाद् व्युपरमः श्रेयान् । इतिशब्दो मदस्थानानामियत्तामावेदयति । मौलान्येतावन्ति, सूक्ष्मभेदास्तेषां भूयांस इति ।। सम्प्रति सामान्येन सर्वमदस्थानेषु दोषानाविर्भावयन्नुपसंहरति एभिर्जात्यादिभिरित्यादि । उक्तलक्षणैर्जात्यादिभिर्मत्तः - अहंमानी परनिन्दायामात्मप्रशंसायां च सक्तस्तीव्रणअतिशयवताऽहङ्कारेणोपहतबुद्धिर्मलीमसधिषण इहपरलोकानुभवनीयं कर्मोपचिनोति - बध्नाति अकुशलंपापमशुभफलम्, अकुशलमपि बद्धं कदाचित् कुशलफलतया परिणमत इत्यशुभफलग्रहणम् । सम्यग्दर्शनादि मुक्तिसाधनं श्रेयः । तच्चाख्यायमानमपि न प्रतिपद्यते न श्रद्धत्ते । यत एतदेवं तस्मादेषां मदस्थानानां मार्दवं निग्राहकं तन्निग्रहाच्च धर्म इति ।। सम्प्रति मायाप्रतिपक्षमार्जवं लक्षयति भा० भावविशुद्धिरविसंवादनं चार्जवलक्षणम् । ऋजुभावः ऋजुकर्म वाऽऽर्जवम् । भावदोषवर्जनमित्यर्थः । भावदोषयुक्तो हि उपधिनिकृतिसंप्रयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते। तस्मादार्जवं धर्म इति ॥ ३ ॥ वृ० भावविशुद्धिरिति । भावा: कायवाङ्मानसानि तेषां विशुद्धि: अवक्रताशाठ्यविरहितत्वम्, मनसोऽपि परिणामः कायवाचोरुपचर्यते तद्वृत्तानुवृत्तेः । मायावी तु सर्वाभिसन्धानपरतया सर्वाभिशङ्कनीयः कपटपटप्रच्छादितकायादिक्रियः सुहृदेऽपि द्रुह्यति । तमेव योगानामविपर्यासं दर्शयति ऋजुभाव इत्यादिना । उपधिनिकृत्योर्विशेषः उपधिः छद्म छादनं स्वाभिसन्धेः निकारो निकृतिः परबुद्धिपराभवद्वारेण स्वाभिसन्धेः साफल्यापादनम् । अविसंवादनमविनाशनं अहिंसनमित्यनर्थान्तरम् । विनाशनं - परिणामान्तरापादनं विसंवादनमुच्यते । न विसंवादनमविसंवादनम्, परिणामान्तरानापादनमिति । तस्मादेवंविधमार्जवं धर्मः ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302