________________
१२२
ध्यानशतकम्, गाथा - ६९ 222222
लम्भनं लाभः प्राप्तिर्विशिष्टफलस्य सत्कारसन्मानादेः नृपतिसन्मित्रभृत्यस्वजनेभ्यो विज्ञान- तपो ऽभिजनशौर्याद्याधिक्यादहं लभेयम्, अपरः प्रयत्नवानपि न लभत इति स्वलाभेन माद्यति । तथा सकलजनवल्लभतां च प्राप्तोऽहम्, अयमपरो न कस्मैचिद् रोचते, वचनमप्यस्य नादरयन्तीति सर्वोऽप्ययं लाभमदः । स चैवं निगृहीतव्यो भान्तरायकर्मोदयादलाभो लाभान्तरायकर्मक्षयोपशमाञ्च सत्कारादिलाभः, संसारे परिभ्रमतो जीवस्य कादाचित्को न तु शाश्वतः, कर्मायत्तत्वात्, संसारानुबन्ध्येवेति लाभमदत्यागः श्रेयस्करः । वाल्लभ्यकप्राप्तिरपि कर्मोदयजनितैव, संसारिणां च सुलभेति वाल्लभ्यकलाभमदः परिवर्जनीय इति ।
भा० एभिर्जात्यादिभिरष्टाभिर्मदस्थानैर्मत्तः परात्मनिन्दाप्रशंसाभिरतः तीव्राहङ्कारोपहतमतिरिहामुत्र च अशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादेषां मदस्थानानां निग्रहो मार्दवं धर्म इति ॥२॥
वृ०
वीर्यं पराक्रमः शक्तिरुत्साहः सामर्थ्यातिशयवती चेष्टेति पर्यायाः । वीर्यान्तरायक्षयोपशमात् प्रादुरस्ति वीर्यं-बलविशेषस्तेन वीर्येण माद्यतीति वीर्यमदः, तस्य प्रतिक्षेपः संसारानुबन्धित्वचिन्तनात्, संसारानुबन्धी वीर्यमदः कषायरूपत्वात्, वीर्यस्य चाशाश्वतत्वात् । तथाहि बलिनोऽपि पुरुषाः क्षणेन निर्बलतामुपयान्तो दृश्यन्ते, निर्बलाष्टा बलवन्तः संस्कारवशादाशु जायन्ते तथा व्याधि-जरा-मृत्युषूद्भूतबलेषु चक्रवर्तिहरिसीरिणोऽपि सीदन्ति ससुरासुराः, किमुतान्ये पृथग्जना इति ? वीर्यमदाद् व्युपरमः श्रेयान् । इतिशब्दो मदस्थानानामियत्तामावेदयति । मौलान्येतावन्ति, सूक्ष्मभेदास्तेषां भूयांस इति ।। सम्प्रति सामान्येन सर्वमदस्थानेषु दोषानाविर्भावयन्नुपसंहरति
एभिर्जात्यादिभिरित्यादि । उक्तलक्षणैर्जात्यादिभिर्मत्तः - अहंमानी परनिन्दायामात्मप्रशंसायां च सक्तस्तीव्रणअतिशयवताऽहङ्कारेणोपहतबुद्धिर्मलीमसधिषण इहपरलोकानुभवनीयं कर्मोपचिनोति - बध्नाति अकुशलंपापमशुभफलम्, अकुशलमपि बद्धं कदाचित् कुशलफलतया परिणमत इत्यशुभफलग्रहणम् । सम्यग्दर्शनादि मुक्तिसाधनं श्रेयः । तच्चाख्यायमानमपि न प्रतिपद्यते न श्रद्धत्ते । यत एतदेवं तस्मादेषां मदस्थानानां मार्दवं निग्राहकं तन्निग्रहाच्च धर्म इति ।।
सम्प्रति मायाप्रतिपक्षमार्जवं लक्षयति
भा० भावविशुद्धिरविसंवादनं चार्जवलक्षणम् । ऋजुभावः ऋजुकर्म वाऽऽर्जवम् । भावदोषवर्जनमित्यर्थः । भावदोषयुक्तो हि उपधिनिकृतिसंप्रयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते। तस्मादार्जवं धर्म इति ॥ ३ ॥
वृ०
भावविशुद्धिरिति । भावा: कायवाङ्मानसानि तेषां विशुद्धि: अवक्रताशाठ्यविरहितत्वम्, मनसोऽपि परिणामः कायवाचोरुपचर्यते तद्वृत्तानुवृत्तेः । मायावी तु सर्वाभिसन्धानपरतया सर्वाभिशङ्कनीयः कपटपटप्रच्छादितकायादिक्रियः सुहृदेऽपि द्रुह्यति ।
तमेव योगानामविपर्यासं दर्शयति ऋजुभाव इत्यादिना । उपधिनिकृत्योर्विशेषः उपधिः छद्म छादनं स्वाभिसन्धेः निकारो निकृतिः परबुद्धिपराभवद्वारेण स्वाभिसन्धेः साफल्यापादनम् । अविसंवादनमविनाशनं अहिंसनमित्यनर्थान्तरम् । विनाशनं - परिणामान्तरापादनं विसंवादनमुच्यते । न विसंवादनमविसंवादनम्, परिणामान्तरानापादनमिति । तस्मादेवंविधमार्जवं धर्मः ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org