________________
शुक्लध्याने आलम्बनानि
१२३
अधुना लोभप्रतिपक्षं शौचलक्षणाविर्भावयन्नाहभा० अलोभः शौचलक्षणम् । शुचिभावः शुचिकर्म वा शौचम् ।।
अलोभ इति । अलोभः शौचलक्षणम् । लोभस्तु भावतः परमार्थतोऽभिष्वङ्गप्टोतनाचेतनमिश्रवस्तुविषयः । लोभदोषाञ्च क्रोधमानमायाहिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहार्जनमलजालेनोपचीयमान आत्मा भवत्यशुचिः । तत्रालोभो-लोभाभावो न कचिन्ममत्वम्। अलोभस्य हि लोभदोषविनिमुक्तत्वान्निर्भयत्वम् । ततः स्वपरहिताभिप्रवृत्तिरित्येतदेव शौचलक्षणं मुख्यमात्मनः । एतदेव स्पष्टयतिभावविशुद्धिनिष्कल्मषता। धर्मसाधनमात्रास्वपि अनभिष्वङ्ग इत्यर्थः । अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्माच्छौचं धर्म इति ।।४।। भावविशुद्धिर्ममत्वाभावो निःसङ्गता च,अपरद्रोहेणात्मार्थानुष्ठानं निष्कल्मषता-निर्मलताभाव (धर्म)? साधनमात्राःरजोहरण - मुखवस्त्रिका-चोलपट्टक-पात्रादिलक्षणाः तास्वप्यनभिष्वङ्गो विगतमूर्छ इत्यर्थः । यस्मादशुचि
र्भावकल्मषसंयुक्तः, भावकल्मषं च लोभकषायस्तस्मात् तत्त्यागः । शौचं धर्म इति, शरीरमहाव्रणप्रक्षालनादि द्रव्यशौचम्, तच्च प्रासुकैषणीयेन जलदिना निर्लेपनिर्गन्धितापादनमागमोक्तेन विधिना कार्यमिति ।। अवसरप्राप्तं
पञ्चमं धर्मानं निर्दिदिक्षुराहभा० सत्यर्थे भवं वचः सत्यं, सद्भ्यो वा हितं सत्यम्, तदननृतम्, अपरुषमपिशुनमनसभ्यमचपलमनाविलम
विरलमसम्भ्रान्तं मधुरमभिजातमसन्दिग्धं स्फुटमौदार्ययुक्तमग्राम्य-पदार्थाभिव्याहारमसीभरमरागद्वेषयुक्तम् ।। सन्-विद्यमानोऽर्थोऽनेकधर्मा तस्मिन् सत्यर्थे भवम्, दिगादित्वात् यत्, यथाऽवस्थितार्थप्रतिपत्तिकारी सत्यम् । नन्वेवं सति लुब्धकाय मृगाख्यानमपि सत्यं स्यात्, किं (एवं ?) तर्हि सच्छब्दः प्रशंसार्थः । प्रशंस्तोऽर्थः सन् न पापहेतुः तस्मिन् सति भवं सत्यं पक्षान्तरसमाश्रयणं वा, सद्भयो वा हितं सत्यमिति, सन्तो जीवा एव गृह्यन्ते, हितशब्दोपादानात । न ह्यजीवसम्बन्धि किञ्चिद्धितमस्ति, अतोऽप्रशस्तार्थव्यावृत्तिः । सामान्येन वा जीवाजीवेभ्यो हितम् । अनेकपर्यायकलापभाजोऽर्थाः । तेषां यथाऽवस्थितविवक्षितपर्यायप्रतिपादनं सत्यम्, एतदेव तेभ्यो हितं यद् यथार्थप्रतिपादनमिति, तस्येदानीं सत्यवचनस्य विशेषगुणानाचष्टे - तदनृतमिति । अनृतं-भूतनिह्नवः अभूतोद्भावनं विपरीतकटुकसावद्यादिवचनं, नानृतम् । ननु च सत्यपर्याय एवायम् । सत्यमेतत्, तथापि वक्ष्यमाणोत्तरगुणप्राप्त्यर्थं पुनर्वचनम् । परुषं-रूक्षं स्नेहरहितं (निष्ठुरं) परपीडाकारि । न परुषमपरुषम् । तत्राविनयेषु माध्यस्थ्यभावना, विनयेषु तु सौम्या वागपरुषम्, पिशुनं-प्रीतिविच्छेदकारि द्वयोर्बहूनां वा सत्यासत्यदोषाख्यानात्, न पिशुनमपिशुनम् । सभाहँ-सभ्यम्, न सभाहमसभ्यं-सभासु विगर्हितं विदग्धसभासु गुह्यप्रकटनामोद्घाटनवचनवत्, तस्य प्रतिषेधो नासभ्यमनसभ्यम् । चपल: अनालोचितभाषी, तद्वचनमपि चपलं तच्च दोषाक्षेपि भवति । आविलं कलुषम्, कषायवशवर्तिनो वचनम्, न आविलमनाविलं प्रसन्नवचनमिति यावत् । विरलं
व०
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org