________________
१२४
ध्यानशतकम्, गाथा-६९
विश्रम्यभाषण, सविच्छेदत्वाच्च श्रोतुरनादरवाक्यव्याहरणाच्छ्रवणवैरस्यं करोति । न विरलमविरलमनुसन्ततमिति । सभ्रान्तं तु त्रासकरम्, न सम्भ्रान्तमसम्भ्रान्तम् अतित्वरितं वा सम्भ्रान्तमनुच्छ्वसन भाषते च यद् अव्यक्तवर्णपदलोपत्वादप्रत्यायकं वा श्रुतिविरसाक्षरमप्ररोचकमेव स्यात् । मधुरमिति प्रसन्नपदघटितं श्रुतिसुखम्, सुखावबोधार्थं च अनभिमान-विनयसहितम् अभिजातं-सप्रश्रयं सविनयम् सन्दिग्धम्आकाङ्क्षाविनिवर्तने अक्षमं तद्विपरीतमसन्दिग्ध-माकाङ्क्षाविच्छेदकारि, निराकाङ्क्षमिति । अस्फुटम् अनिष्टिातार्थत्वादालूनविशीर्णप्रायम्, (वि)निष्टिातार्थं तु स्फुटम् । अनौदार्यम्-अत्यौद्धत्यप्रदीपकम्, तद्विपरीतमौदार्यम्, अप्रधानार्थम् अनौदार्यम् उदारार्थप्रतिबद्धत्वादुदारं तद्भाव औदार्यं तद्युक्तमौदार्ययुक्तम् । विद्वज्जनमनोऽनुरञ्जनेऽसमर्थं ग्राम्यम्, न ग्राम्यमग्राम्यम् । पदार्थाटा विवक्षितानभिव्याहरतीति पदार्थाभिव्याहारम्,
अग्राम्यत्वात् पदार्थानभिख्याहरतीति । विद्वज्जनाभिमतानित्यग्राम्यपदार्थाभिव्याहारम्, सीभरं विकत्थनं विमर्दकरम्, न सीभरमसीभरं आश्वेव प्रस्तुतार्थपरिसमाप्तिकारि । अरागद्वेषयुक्तमिति मायालोभाभ्यां कोपमानाभ्यां चायुक्तम् ।।
- तत्वार्थ. सिद्ध. वृत्तौ ।। B अव० क्षान्तेः प्राधान्यदर्शनार्थमाह
धर्मस्य दया मूलं, न चाक्षमावान् दयां समाधत्ते ।
तस्माद् यः क्षान्तिपरः, स साधयत्युत्तमं धर्मम् ।। १६८ ।। वृ. धर्मस्य दशप्रकारस्य दया मूलं । न चाक्षमावान् दयां समाधत्ते करोति । तस्मात् यः
क्षान्तिपरः स साधयत्युत्तमं धर्ममिति ।। १६८ ।। अव० मार्दवमाह
विनयायत्ताश्च गुणाः, सर्वे विनयश्च मार्दवायत्तः ।
यस्मिन् मार्दवमखिलं, स सर्वगुणभाक्त्वमाप्नोति ।। १६९ ।। वृ० विनयायत्ता गुर्वभ्युत्थाद्याधीना गुणा ज्ञानादयः सर्वे, विनयश्च मार्दवायत्तो मृदुत्वाधीनो यस्मिन्
मार्दवमखिलं समस्तं स प्राणी सर्वगुणभाक्त्वं समस्तज्ञानाद्याश्रयतामाप्नोति लभते, तस्मान्मार्दवं
कार्यमिति ।। १६९ ।। अव. आर्जवमाह
नाऽनार्जवो विशुध्यति, न धर्ममाराधयत्यशुद्धात्मा ।
धर्मादृते न मोक्षो, मोक्षात् परमं सुखं नान्यत् ।। १७० ।। वृ० यत् नाऽनार्जवो मायावान् विशुध्यति, न च धर्ममाराधयति निष्पादयत्यशुद्धात्मा संक्लिष्टजीवो
धर्मादृते न मोक्षो धर्मं विना न मुक्तिः, ऋते अत्रापि योगात्, मोक्षादृते परमं सुखं नास्ति न विद्यतेऽन्यदिति ।। १७० ।।
अव० शौचमाह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org