________________
शुक्लध्याने क्रमद्वारम्
१२५
चाफलीकरणमिति, एवं मानादिष्वपि भावनीयम्, एता एव क्षान्ति-मार्दवा-ऽऽर्जव-मुक्तयो विशेष्यन्ते - जिनमतप्रधाना इति जिनमते तीर्थकरदर्शने कर्मक्षयहेतुतामधिकृत्य प्रधाना जिनमतप्रधानाः, प्राधान्यं चासामकषायं चारित्रं चारित्राच्च निश्चयतो मुक्तिरिति कृत्वा, ततश्चैता आलम्बनानि प्राग्निरूपितशब्दार्थानि, पैरालम्बनैः करणभूतैः शुक्लध्यानं समारोहति, तथा च क्षान्त्याद्यालम्बन एव शुक्लध्यानं समासादयति, नान्य इति गाथार्थः ।।६९।। ___ व्याख्यातं शुक्लध्यानमधिकृत्याऽऽलम्बनद्वारम् । साम्प्रतं क्रमद्वारावसरः, क्रमश्चाऽऽदौ धर्मध्यानक्रम एवोक्तः, इह पुनरयं विशेषः -
तिहुयणविसयं कमसो संखिविउ “मणो अणुंमि छउमत्थो ।
झायइ सुनिप्पकंपो झाणं अमणो जिणो होई ।।७०।। तिहुयण. गाहा ।। त्रिभुवनम् अधस्तिर्यगूर्ध्वलोकभेदं तद्विषयो गोचर आलम्बनं यस्य मनस इति योगः, तत्रिभुवनविषयम्, क्रमशः क्रमेण - परिपाट्या प्रतिवस्तुपरित्यागलक्षणया, संक्षिप्य सङ्कोच्य, किम् ? मनः अन्तःकरणम्, क्व ? अणौ परमाणौ, निधायेति शेषः, कः? छद्मस्थः प्राग्निरूपितशब्दार्थः, ध्यायति चिन्तयति सुनिष्पकम्पः अतीव निश्चल इत्यर्थः, ध्यानम् शुक्लम, ततोऽपि प्रयत्नविशेषान्मनोऽपनीय अमनाः अविद्यमानान्तःकरणो जिनो भवति अर्हन् भवति, चरमयोर्द्वयोर्ध्यातेति शेषः, तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्येति गाथार्थः ।।७० ।।
आह - कथं पुनश्छद्मस्थस्त्रिभुवनविषयं मनः संक्षिप्याणौ धारयति, केवली वा ततोऽप्यपनयतीति ? अत्रोच्यते -
व. या
यद् द्रव्योपकरणभक्तपानदेहाधिकारकं शौचम् । तद् भवति भावशौचानुपरोधाद् यत्नतः कार्यम् ।। १७१ ।। यच्छौचं द्रव्योपकरणभक्तपानदेहाधिकारकं तद्भवति कार्यं भावशौचानुपरोधादिति सम्बन्धः । तत्र द्रव्यरूपं-पुद्गलात्मकं तञ्च तदुपकरणं च- रजोहरणादि तञ्च भक्तपाने च देहश्च तथा, तानाश्रित्याधिकारो-गोचरो यस्य तत्तथा । अयमत्र भावार्थः - एतान्युपकरणादीनि समस्तान्यशुच्यादिना रुधिरादिना (वा) खरण्टितानि प्रक्षालनीयानि, पूर्वयतिवरैरेवं कृतत्वाद्, भावशौचानुपरोधात् संयमाक्षतेरिति
||१७१।। -प्रशमरतौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org