________________
१२१
शुक्लध्याने आलम्बनानि Pantaraastarsssssssansasaramatarakarakarakararatatakarakara
भेदाः । इमानीति प्रत्यक्षीकरोति । परस्यानुभवमुत्पादयति- .. भा० तद्यथा-जातिः १ कुलं २ रूपम् ३ ऐश्वर्य ४ विज्ञानं ५ श्रुतं ६ लाभः ७ वीर्यम् ८ इति ।। वृ० तद्यथेत्यादिनोदाहरति । जात्यादीनि वीर्यान्तान्यष्टौ स्थानानि । तत्र जातिः पित्रन्वयः प्रख्याततमवंशता
जातिर्जन्मात्मलाभ: पञ्चेन्द्रियादिलक्षणा वा तया गर्वमुद्वहति विशिष्टजातिरहमिति । विदितकर्मपरिणामस्तु निरुणद्धि जातिमदं, स्वकृतकर्मफलानुभाजो जीवा नानाजातीरुञ्चावचाः प्रपद्यन्ते इति न श्रेयान् जातिमदः। मात्रन्वयः कुलमुग्रभोजादि वा। तेनापि मदो न युक्त एव जात्यादिभावनावदिति रूपं शरीरावयवानां सन्निवेशविशेषो लवण्ययुक्तस्तेनापि कष्टिान्माद्यति, तत्प्रतिषेधस्त्वाद्युत्तरकारणालोचनाद् भवति। तत्राद्यं कारणं मातुरोजः पितुः शुक्रम्, उत्तरकारणं जननीग्रस्तान्नपानरसाभ्यवहारो रसहरण्येत्येवमामृशतो न प्रतिभाति रुपमदः । त्वग्-मांसा-ऽस्थि-पुरीष-पूयाद्यशुभप्रायत्वात्। ऐश्वर्यमदो धनधान्यसम्पत्प्रभवः । धनं रजत-चामीकर-मरकतादि गो-महिष्य-ऽजाविकादि च, व्रीहितिल-मुद्ग-माष-कङ्ग्वादि धान्यं तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्ष्यमाणेन क्लेशकारिणा अकाण्डभगुरेणाऽऽयत्यामायासबहुलेन को मद इत्येवं प्रत्याचक्षीत । वाचकेन त्वेतदेव बलसंज्ञया प्रशमरतावुपात्तम् । तच्च त्रिधाः शरीर-स्वजन-द्रव्यबलम् । इहैश्वर्यग्रहणात् स्वजनद्रव्यबलपरिग्रहः । शरीरबलं तु वीर्यग्रहणात् पृथग् गृहीतं वीर्यबलस्य प्राधान्यप्रकाशनार्थम् । विज्ञानं बुद्धिष्टातुर्विधा-औत्पत्तिकी, वैनयिकी, कर्मजा, पारिणामिकी चेति । तत्रौत्पत्तिकी अदृष्टाश्रुतपूर्ववस्तुन्युपनते तत्क्षण एव समासादितोपजना (?) अव्याहतफला भरतरोहकादेरिव भवति । गुर्वादिविनयानुष्ठानाभ्यासविशेषप्रभवा वैनयिकी ऐहिकामुष्मिकफलसम्पादिनी प्रस्तुतकार्यनिस्तरणसमर्था धर्मादित्रिवर्गशास्त्रार्थग्राहिणी च पुत्रागमनकाणहस्तिनीपरिज्ञाननैमित्तिकस्यैव । कर्मजा पुनः धीः साधुकारफला, अनाचार्यकं कर्म, तत्र पुनःपुनरुपयोगात् प्रतिक्षणमभ्यस्यतस्तादृशी बुद्धिरुत्पद्यते येन प्रथमादिकृतकर्मातिशायि पाष्टात्यं कर्मोपजायते, सौवर्णिककृषीवलतन्तुवायादेरिव । पारिणामिकी तु वयोविपाकलब्धजन्मा परमहितनिःश्रेयसफला पञ्चावयवादिसाधनानुसारिणी भवत्यभयकुमारादेरिव यथासम्भवम् । इत्थं लब्धया बुद्ध्या अहमेव बुद्धिमानिति मन्यमान: परिभवति शेषं जनम् । मदसमुद्धतस्य परपरिभवपरिवादादात्मोत्कर्षाच्चाशुभं कर्म नीचैर्गोत्रादि बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति सापायमवग(म)त्य बुद्धिगर्वमित्थं विचिन्तयेत्-बुद्धयो हि विनयाधानहेतवः सर्वदा,न जातुचित् अहङ्कारस्य कारणीभवन्ति। मानपरस्य च विनयखण्डनमवश्यम्भावि। विनयहीनस्य च धर्मतपसी निष्फले स्यातामिति विज्ञानमदो यत्नेन महता विवर्जनीयः ।
श्रुतम् आप्तप्रणीत आगमः तत्परिज्ञानान्माद्यति अहमेवैको जाने, नापर इति । श्रुतमदान्धष्टा बालिशमेव परं मन्यते, श्रुतमदं च निजिघृक्षुरित्थमालोचयेत् प्रकर्षापकर्षवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः, कदाचिदहमन्य-भ्योऽल्पतरश्रुतोऽतिगहनार्थत्वादागमानामधिगतश्रुतोऽपि वा दुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् । अपि च- चतुर्दशपूर्वधरेष्वपि षट्स्थानकमवधुष्यते यदि, तत्र का कथा शेषश्रुतधरे श्रुतज्ञानावरणक्षयोपशमवैचित्र्याद्, अधिगतसकलश्रुतेनापि परिहार्यः श्रुतमद इति ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org