________________
१२०
ध्यानशतकम्, गाथा - ६९ Patara
दिष्ट्या च मां प्रत्यक्षमाक्रोशति, न ताडयति, एतदप्यस्ति बालेष्विति लाभ एव मन्तव्यः । ताडयत्यपि बाले क्षमितव्यम्। एवंस्वभावा हि बाला भवन्ति । दिष्ट्या च मां ताडयति, न प्राणैर्वियोजयतीति । एतदपि विद्यते बालेष्वति । प्राणैर्वियोजयत्यपि बाले क्षमितव्यम् । दिष्ट्या च मां प्राणैर्वियोजयति,
न धर्माद् भ्रंशयतीति क्षमितव्यम् । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः । किञ्चान्यत्वृ० बालस्वभावेत्यादि । बालशब्दोऽवैधेयवचनः, न वयोऽवस्थावाची । तथैव चाह भाष्यकृत् । बाल: मूढो निर्विवेक इत्यर्थः । तस्य चैष एव स्वभावो मूढत्वाद् यत्किञ्चनभाषित्वं तत्स्वभावालोचनमन्वेषणम्, अतस्तच्चिन्तनाच्च क्षमितव्यमेव । चशब्दः समुच्चयार्थः । उत्तरोत्तररक्षार्थमिति परोक्षाक्रोशात् प्रत्यक्षाक्रोशनमुत्तरम्, प्रत्यक्षाक्रोशनात् ताडनम्, ताडनान्मारणम्, मारणाद् धर्मभ्रंशनम्, परोक्षाक्रोशेन क्षमायां प्रत्यक्षाक्रोशनं रक्षितं भवति । एवमुत्तरत्रापि, अस्ति हि कियत्यपि मन्दा क्षमाऽकोष्टुर्मयि ततः परोक्षमाक्रोशति, न प्रत्यक्षम् । दिष्ट्येति तृतीयैकवचनप्रतिरूपको निपातः प्रसादवचनः प्रशंसावचनो वा । अयमेव च प्रसादो मम इदमेव वा साधु यन्मां परोक्षमाक्रोशति, न प्रत्यक्षमित्येष एव लाभ: । लौकिकः खलु अयमाभाणकः - अयमेव (मे) लाभ इति, एवं सर्वत्र व्याख्या । किञ्चान्यदालम्बनमाश्रित्य क्षमा कार्या तदभिधीयते
वृ०
भा० स्वकृतकर्मफलाभ्यागमा । स्वकृतकर्मफलाभ्यागमोऽयं मम, निमितमात्रं पर इति क्षमितव्यम् । किञ्चान्यत्स्वकृतफलाभ्यागमाचेति । जन्मान्तरोपात्तस्य कर्मणः स्वकृतस्यायं विपाको मम यदाक्रोशति ताडयति वापरः, स तु निमित्तमात्रं कर्मोदयस्य । यस्माद् द्रव्यक्षेत्रकालभवभावापेक्षः कर्मणामुदयो भगवद्भिराख्यातः । स्वकृतं च कर्मानुभवितव्यमवश्यन्तया निकाचितं तपसा वा क्षपणीयमिति । किञ्चान्यदालम्बनं क्षन्तुमनसा विधातव्यमित्याह
भा० क्षमागुणांष्टानायासादीननुस्मृत्य क्षमितव्यमेवेति क्षमाधर्मः । । १ ।
वृ०
क्षणागुणांष्टत्यादि । क्षमाया गुणाः ज्ञानादिवृद्धिहेतवोऽनायासादयः । तांष्टधानुचिन्त्य क्षमामेव विदधीत | आयासो- दुःखहेतुष्टष्टाविशेषः प्रहरणसहायान्वेषणं संरम्भावेशारूणाविलोचनस्वेदद्रवप्रवाहप्रहारवेदनादिकः । तद्विपरीतो-ऽनायासः- स्वस्थता । आदिग्रहणात् तत्प्रत्ययकर्मप्रायष्टिशत्ताभावः शुभध्यानाध्यवसायिता परसमाधानोत्पादनं स्तिमितप्रसन्नान्तरात्मत्वमित्यादयः । इत्थमनुस्मरतो गुणाः सम्पद्यन्ते क्षममाणस्य, क्षमितव्यमिति क्षमाधर्मः ।
तथा मार्दवधर्मः मृदुः - अस्तब्धस्तद्भावस्तत्कर्म वा मार्दवम् । तल्लक्षणप्रदर्शनायाह
भा० नीचैर्वृत्त्यनुत्सेको मार्दवलक्षणम् । मृदुभावो मृदुकर्म वा मार्दवम्, मदनिग्रहो मानविघातथेत्यर्थः । तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति ।
वृ० नीचैर्वृत्त्यनुत्सेकाविति । नीचैर्वृत्तिः- अभ्युत्थानासनदानाञ्जलिप्रग्रहयथार्हविनयकरणरूपा नीचैर्वर्तनम् । उत्सेकष्टिशत्तपरिणामो गर्वरूपस्तद्विपर्ययोऽनुत्सेकः । संसारस्वभावं भावयतोऽसमञ्जसविशिष्टजातिकुल्लादिसम्पदः कदाचिदेवासाद्यन्ते कदाचिद्धीनास्ततो न गर्वपरिणाममास्कन्दतीत्येतदेवाह - मदनिग्रह इत्यादि । माद्यत्यनेनेति मदः जात्यादिमदंस्तस्य [ निग्रहः उदयनिरोधः कदाचिदुदितस्य वा वैफल्यापादनं मानो-मूलप्रकृतिः यद्विजृम्भणादेते प्रादुष्षन्ति जात्यादिमदास्तस्य ] च निर्घातो मूलोत्कर्तनमित्यर्थः । तष्टाते चावश्यम्भावी जात्यादिमदविनाशः । तन्निरूपणार्थमाह - तत्र मानस्येत्यादि । तत्रेति वाक्योपन्यासार्थः । स्थानानि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org