________________
शुक्लध्याने आलम्बनानि
भा०
वृ०
भा०
वृ०
भा०
वृ०
भा०
वृ०
तत्र क्षमा तितिक्षा सहिष्णुत्वं क्रोधनिग्रह इत्यनर्थान्तरम् ।।
तत्र क्षमेत्यादिना विवृणोति । उत्तमत्वं क्षमेति क्षमणं-सहनं परिणाम आत्मनः शक्तिमतः । अशक्तस्य वा प्रतीकारानुष्ठाने तां पर्यायशब्दैराचष्टे । तितिक्षा क्षान्तिः। सहिष्णुत्वं सहनशीलत्वम्। क्रोधनिग्रहः क्रोधस्योदयनिरोधः, उदितस्य वा विवेकबलेन निष्फलताऽऽपादनम् । एवमेतेऽनर्थान्तरवाचिनः शब्दाः क्षमामेवाभिदधति |
११९
भाष्यकारस्तु स्वयमेवाशङ्क्याह
तत् कथं क्षमितव्यमिति चेदुच्यते - क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् । ।
तत् कथं क्षमितव्यमिति चेत् । क्षमितव्यमिति भावे कृत्यः । क्षमाऽपि भाव एव । अतः सामान्यमात्रमाश्रित्य तच्छब्दप्रयोगः । वाक्यार्थस्तु सा क्षमा कथं केन प्रकारेण कर्तव्या ? एवं मन्यते दुर्भञ्जः क्रोधवेगो मदाकुलस्येव करिणः । चेच्छब्दः शङ्कायाः सूचकः । एवमाशङ्किते आशङ्काव्युदासचिकीर्षया आहउच्यत इति । क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् । भावः सद्भावोऽस्तित्वं तचिन्तनात् तदुपयोगाद् उभयथाऽपि क्रोधो न घटत इति । येन निमित्तेन परप्रयुक्तेनायं मम कोप उत्पद्यते तन्निमित्तं मयि किं सत्यमेवास्ति उताभ्याख्याति परः ?, यदि सत्यमस्त्येतन्निमित्तं किं कोपेन ? कृतं खलु मयेदम्, नाणीयोऽपि परस्यात्राऽऽगः सद्भूतमर्थं प्रकाशयतः, स्वकृतं हि दुष्टारितं तपतीत्येवम् चिन्तयेत् । एतदेवाहभावचिन्तनात् । तावद् विद्यन्ते मय्येते दोषाः किमत्रासौ मिथ्या ब्रवीतीति क्षमितव्यम्, तथाऽभावचिन्तनादपि क्षमितव्यमित्यादि, ये दोषाः परेणोपक्षिप्यन्ते मयि नैते विद्यन्ते । अभाव एव, परस्त्वज्ञानादेवमभिधत्ते । अज्ञात्वैव दोषानुपक्षिपतीत्यर्थः । एवं च निरपराधमात्मानमवेत्य क्षन्तव्यमेव ।।
किञ्चान्यदालम्बनं सहिष्णुत्वे इत्याह
-
Pazaraza
परैः प्रयुक्तस्य क्रोधनिमित्तस्यात्मनि भावचिन्तनादभावचिन्तना क्षमितव्यम् । भावचिन्तनात् तावद् विद्यन्ते मयि एते दोषाः किमत्रासौ मिथ्या ब्रवीतीति क्षमितव्यम् । अभावचिन्तनादपि क्षमितव्यम्, नैते विद्यन्ते मयि दोषा यानज्ञानादसौ ब्रवीतीति क्षमितव्यम् । किञ्चान्यत्
गतार्थमेवेदं भाष्यम् ।
क्रोधदोषचिन्तनाच क्षमितव्यम् । क्रुद्धस्य हि विद्वेषासादनस्मृतिभ्रंशव्रतलोपादयो दोषा भवन्तीति । किञ्चान्यत्
Jain Education International 2010_02
क्रोधदोषचिन्तनाचेत्यादि । क्रुद्धः कषायपरिणतो विद्वेषी कर्म बध्नाति परं वा निहन्ति व्यापादयति वा । अतः प्राणातिपातनिवृत्तिव्रतलोपः स्यात्, गुरूनासादयेद् अधिक्षिपेत्, अतो ज्ञानादिनिर्वाणसाधनपरिहाणिरवश्यंभाविनी । क्रुद्धो वा भ्रष्टस्मृतिको मृषाऽपि भाषेत, विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात् परपाखण्डिनीषु ब्रह्मव्रतभङ्गमप्यासेवेत । तथा प्रद्विष्टः सहायबुद्ध्या गृहस्थेष्वविरतेषु मूर्च्छामपि कुर्यात् । आदिग्रहणाद् उत्तरगुणभङ्गमप्याचरेत् करटुकभक्तलाभे मासक्षपकवत् ।। किञ्चान्यदालम्बनं क्षान्तावित्याह
भा० बालस्वभावचिन्तना परोक्षप्रत्यक्षाक्रोशताडनमारणधर्मभ्रंशानामुत्तरोत्तररक्षार्थम् । बाल इति मूढमाह । परोक्षमाक्रोशति बाले क्षमितव्यमेव । एवंस्वभावा हि बाला भवन्ति । दिष्ट्या च मां परोक्षमाक्रोशति न प्रत्यक्षमिति लाभ एव मन्तव्यः । प्रत्यक्षमप्याक्रोशति बाले क्षमितव्यम्, विद्यत एवैतद् बालेषु ।
For Private & Personal Use Only
www.jainelibrary.org