________________
११८
ध्यानशतकम्, गाथा-६९ sssssssssssssssssswarastaantarakankshatakshararate
_ [अथ शुक्लध्यानम्] इदानीं शुक्लध्यानावसर इत्यस्य चान्वर्थः प्राग्निरूपित एव, इहापि च भावनादीनि फलान्तानि तान्येव द्वादश द्वाराणि भवन्ति, तत्र भावना-देश-कालाऽऽसनविशेषेषु धर्मध्यानादस्याविशेष एवेत्यत एतान्यनादृत्याऽऽलम्बनान्यभिधित्सुराह -
अह खंति-मद्दव-ऽज्जव-मुत्तीओ जिणमयप्पहाणाओ ।
आलंबणाई जेहिं सुक्कज्झाणं समारुहइ ।।६९।। अह० गाहा ।। अथ इत्यासनविशेषानन्तर्ये क्षान्ति-माईवा-ऽऽर्जव-मुक्तयः क्रोधमान-माया-लोभपरित्यागरूपाः, परित्यागश्चाक्रोधेन वर्तनमुदयनिरोधः उदीर्णस्य R] A आलंबणाणि चत्तारि-खंती, मुत्ती, अज्जवं, मद्दवंति ।।
-आवश्यकचूर्णा ।। B अव. उक्तमपि शुक्लध्यानचतुष्टयं प्रपञ्चयति
आये श्रुतावलम्बनपूर्वे पूर्वश्रुतार्थसंबन्धात् । पूर्वधराणां छद्मस्थयोगिनां प्रायशो ध्याने ।। १३ ।। वृ. प्रायश इत्यपूर्वधराणामपि माषतुष-मरुदेव्यादीनां शुक्लध्यानसद्भावादित्युक्तप्रायम् ।। १३ ।। अव. तथा
सकलालम्बनविरहप्रथिते द्वे त्वन्तिमे समुद्दिष्टे । निर्मलकेवलदृष्टि-ज्ञानानां क्षीणदोषाणाम् ।। १४ ।। वृ० स्पष्टा ।। १४ ।।
-योगशास्त्रे, प्र. ११ ।। c ध्यायेच्छुक्लमथ क्षान्ति-मृदुत्वार्जवमुक्तिभिः । छद्मस्थोऽणौ मनो धृत्वा, व्यपनीय मनो जिनः ।। ७३ ।।
-अध्यात्मसारे, अ. १६ ।। D श्रुतज्ञानार्थसम्बन्धात् श्रुतालम्बनपूर्वके । पूर्वेऽपरे जिनेन्द्रस्य निःशेषालम्बनच्युतेः ।। १९६ ।।
-ध्यानदीपिकायाम् ।। RIA मू. उत्तमः क्षमा-मार्दवा-ऽऽर्जव-शौच-सत्य-संयम-तपस्त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि धर्मः ।।९-६।। वृ० उत्तमग्रहणमगारिधर्मव्यवच्छेदार्थम् । उत्तमो धर्मः प्रकर्षयोगात् । क्षमादयो हि उत्तमविशेषणविशिष्टास्ता
दृशाप्टागारिणो न सन्ति । यतः सर्वावस्थां अनगाराः क्षमन्ते, सकलमदस्थाननिग्राहिण: शाठ्यरहिताः सन्तोषामततप्ताः सत्यवादिनः संयमिनः तपस्विनो यथावद दातारः कनकादिकिञ्चनरहिताः सर्वप्रकारं ब्रह्म बिभ्रतीति । न त्वेवं जातुचिद् गृहिणां क्षमादयः प्रकर्षभाजो भवन्ति । क्षमादयः कृतद्वन्द्वाः प्रथमाबहुवचननिर्दिष्टाः समुदिता एवोत्तमो धर्मः । एष च क्षमादिसमुदयः संवरं धारयति करोति यतस्ततो धर्मः । संवरार्थं चात्मना धार्यत इति धर्मः ।
एतावन्ति धर्माङ्गानि तनिष्पादितष्टा धर्म इति दर्शयतिभा० इत्येष दशविधोऽनगारधर्म उत्तमगुणप्रकर्षयुक्तो भवति ।। वृ० एवमेव दशप्रकारो यतिधर्मः । उत्तमा गुणा मूलोत्तराख्यास्तेषां प्रकर्षः पराकाष्ठा तद्युक्तोऽनगाराणां
धर्मो भवति ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org