________________
११७
धर्मध्याने लिङ्गद्वारम् Pararararatarurakarerakasaratanaararakaratmaratatataaraaratatataste श्रुत-शील-संयमरतः तत्र श्रुतं सामायिकादिबिन्दुसारान्तम्, शीलं व्रतादिसमाधानलक्षणम्, संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, यथोक्तम्-“पञ्चाश्रवात्" [प्रशम.१७२ ] इत्यादि, एतेषु भावतो रतः, किम् ? धर्मध्यानीति ज्ञातव्य इति गाथार्थः ।।६८।।
___ गतं लिङ्गद्वारम्, अधुना फलद्वारावसरः, तच्च लाघवार्थं शुक्लध्यानफलाधिकारे वक्ष्यतीत्युक्तं धर्मध्यानम् ।
६] मू० x x x दर्शनविशुद्धिविनयसम्पन्नता शीलव्रतेष्वनतिचारो x x x तीर्थकृत्वस्य ।।६-२३॥ कृ. xxx तथा शीलव्रतेष्वात्यन्तिको भृशमप्रमादोऽनतिचारः । शीलमुत्तरगुणाः पिण्डविशुद्धि-समिति
भावना-प्रतिमा-भिग्रहलक्षणा: मुमुक्षोः समाधिहेतुत्वात् शीलशब्दाभिधेयाः । व्रतग्रहणात् पञ्च महाव्रतानि रजनीभक्तविरति- पर्यवसानन्याक्षिप्तानि । शीलानि च व्रतानि च शीलवतानि । तेष्विति तद्विषयः । आत्यन्तिकः अत्यन्तभवः संयमः प्रतिपत्तिकालादारभ्य यावदायुषः क्षयस्तावदविश्रान्त्या भवत्वात्यन्तिकोऽप्रमादः सम्बध्यः । भृशमिति प्रकर्षवचनः । प्रकृष्टोऽप्रमादो भृशमप्रमादः । विकटेन्द्रिय-विकथाकषाय-निद्रालक्षणः पञ्चधा प्रमादः । अनेन ह्याविष्टो जीवः कार्याकार्यविमुखत्वादाधाकर्मादि प्राणातिपातादि वा परिहर्तमक्षमो भवति । न प्रमादोऽप्रमादः। प्रमादपरिवर्जनमप्रमत्तता । अनतिचार उच्यते - अतिचरणमतिचारः-स्वकीयागमातिक्रमः । नातिचारोऽनतिचारः। उत्सर्गापवादात्मकसर्वज्ञप्रणीतसिद्धान्तानुसारितया शीलव्रतविषयमनुष्ठानमित्यर्थः। x x x ||६-२३ ।। ।
-तत्वार्थ. सिद्ध. वृत्तौ ।।
अव० संयममाह
पञ्चास्त्रवाद् विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः ।
दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः ।। १७२ ।। वृ.... पञ्चभ्यः प्राणातिपातादिभ्यः आस्रवः कर्मग्रहणं तस्माद्विरमणं विरतिः, पञ्चेन्द्रियनिग्रहः कषायजयो
दण्डत्रयविरतिश्चेति पदत्रयमपि सुगमम् । संयमः सप्तदशभेदः, पृथिव्यादिरक्षणरूपो वेति ।। १७२ ।।
-प्रशमरतौ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org