________________
११६
ध्यानशतकम्, गाथा-६७, ६८ Parashatasatssasarasatssakasamakadaaaaaaaaaaaa
दातुष्टा प्रधानानुषङ्गिकफलं प्रधानं मुक्तिः, आनुषङ्गिकं स्वर्गादिप्राप्तिः प्रच्युतस्येह सुकुल प्रत्ययातिविभवबोधिलाभादिः सोऽर्थः - प्रयोजनं यस्य तदनुग्रहार्थम् अनुग्रहप्रयोजनम्, अर्थशब्दस्य प्रयोजनवाचित्चात् । स्वस्येति स्वशब्द आत्मात्मीयज्ञातिधनादिषु वर्तते इत्यात्मीयवचनः प्रयुक्तः । स्वमात्मीयन्यायेन स्वीकृतं पूर्वजक्रमागतं न्यायवृत्या वा स्वसामर्थ्योपात्तं तस्यातिसर्गः त्यागः । न चोज्झनमात्र त्यागशब्देनोच्यते, किं तर्हि?, दानं विशिष्टसम्प्रदानकमित्यर्थः । तञ्च सम्प्रदानं द्विविधम्-अर्हद्भगवन्तः साधर्मिकाष्टा, तत्रार्हट्यो दीयते पुष्प-बलि-धूप-चामरा-ऽऽतपत्र-कलशध्वज-चन्द्रातपकिरीटाभरणादिः। साधर्मिकास्तु द्विप्रकाराः . साधवः श्रावकाष्टा । साधवो यथोक्तज्ञानदर्शनक्रियानुष्ठानसम्पन्नाः। श्रावकाप्टा सम्यक्त्वाणुव्रतादिद्वादशविधधर्मभाजः। तेभ्यो
दानमन्नादेर्देशकालोपपन्नमिति । एवंविधसूत्रार्थप्रतिपादनाय आत्मपरानुग्रहार्थमित्यादि भाष्यम् । भा० आत्मपरानुग्रहार्थं स्वस्य द्रव्यजातस्यानपानवस्त्रादेः पात्रेऽतिसर्गो दानम् ।।३३।। किञ्चवृ० अनेन च भाष्येण विशुद्धबुद्धित्वं दातुराख्यायते । श्रद्धादिगुणयोग उपायः प्रतिग्रहीता पात्रविशेषः
देयसम्पञ्चेति । आत्मा च परप्टा आत्मपरौ तयोरनुग्रहः आत्मपरानुग्रहः सोऽर्थो यस्य तदात्मपरानुग्रहार्थम् । अनुग्रह उपकारः । स च विशुद्धया धिया ददतः, कर्मनिर्जरणादि फलं ममास्तीत्यनुग्रहग्रहणाद् विशुद्धबुद्धित्वं लभ्यते, अन्यथा तु अनुग्रहाभाव एव स्यात् । तच्च निर्जरादिफलमुपेयमुपायादृते न सम्पद्यत इत्युभयपरिग्रह । देशकालपुरुषावस्थाः संप्रेक्ष्यागमानुसारिणा रागप्रमोदनिर्भरण चेतसा रोमाञ्चकञ्चकोपगूढवपुषा वाऽभ्युत्थाना-ऽऽसनप्रदान-वन्दन-चरणप्रमार्जन-सत्कारपूर्वकं समाधायैकाग्र्य-मित्यादिरुपायः । आत्मेति दाता श्रद्धाशक्तिसत्त्वक्षमाविनय-वितृष्णतागुणसम्पन्नो ददामीत्येवं परिणतः, परोपादानात् प्रतिग्रहीता ज्ञानक्रियान्वितो विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभाग मूलेत्तरगुणसम्पदुपेतः पात्रमिष्यते । स्वस्य द्रव्यजातस्यान्नपानवस्त्रादेरित्यनेन देयनिर्देशः । स्वस्येत्यात्मीयस्य लोकविरुद्धचौर्यव्यवहाराद्यनुपात्तस्य । द्रव्यजातस्येति द्रव्यविशेषस्य पुद्गलद्रव्यस्य जीवद्रव्यस्य च, पुद्गलद्रव्यस्यापि न सर्वस्य कुठारहलदात्रशस्रादेरनेकप्राणिदुःखहेतोः । किं तर्हि?, अन्नपानवस्रादेः । आदिग्रहणादौधिकौपग्रहिकसक लोपकरणपरिग्रहः । सर्वथा आहारो भेषजं शय्योपधिर्वा साधोः परत एव लभ्यः । स च पुद्गलोत्पादनेनैषणाशुद्धः । स च दातुः प्रतिग्रहीतुष्टोपकारको निर्जराफलत्वात्, जीवद्रव्यस्यापि न सर्वस्य, दासदासीबलीवर्दवाहनादेः स्वयमेव दुःखितत्वात् क्लिश्यमानत्वात् । यथाऽऽह“जं न य दुहियं न य दुक्खकारणं होइ दिण्णमण्णेसिं । वट्टइ अणुग्गहे तं विहिए दिन्नं असावज्जं ।।१।।" द्विपदमपि गृहिणा प्रव्रज्याभिमुखं प्रव्रज्याहं पुत्रदुहितृभ्रातृपत्नीप्रभृति स्वामिना दत्तमनुज्ञातं प्रव्राज्यम्, इत्थमुक्तेन न्यायेन देशकालोपपन्नमचेतनं सचेतनं वा द्रव्यजातं पात्रे गुणवति देयम् । अत्राधाकर्माद्यपि देशकालापेक्षपात्रविनियुक्तं स्वर्गानुकूलप्रत्ययातिफलमेव भवति, पारम्पर्यान्मुक्तिफलमपीति ।।
-तत्वार्थ. सिद्ध. वृत्तौ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org