________________
धर्मध्याने लिङ्गद्वारम्
११५
कथनम् उपदेशः, आज्ञा त्वर्थः, निसर्गः स्वभाव इति गाथार्थः ।।६७ ।। किञ्च -
जिण० गाहा ।। जिनसाधुगुणोत्कीर्तन-प्रशंसा-'विनय-दानसम्पन्नः इह जिनसाधवः प्रतीताः, तद्गुणाश्च निरतिचारसम्यग्दर्शनादयस्तेषामुत्कीर्तनं सामान्येन संशब्दनमुच्यते, प्रशंसा त्वहो श्लाघ्यतया भक्तिपूर्विका स्तुतिः, विनयः अभ्युत्थानादिः, दानम् अशनादिप्रदानम्, एतत्सम्पन्नः एतत्समन्वितः, तथा
[४]A मू० दर्शनविशुद्धिविनयसम्पन्नता x x x तीर्थकृत्त्वस्य ।।६-२३ ।। वृ० xxx विनयसम्पन्नता चेति । विनीयतेऽनेनाष्टप्रकारं कर्मेति विनयः । स च ज्ञान-दर्शन-चारित्रो-पचारभेदेन
चतुर्धा । तत्र ज्ञानविनयः कालविनयबहुमानोपधानादिः । दर्शनविनयो निःशङ्कनिःकाङ्क्षादिभेदः । चरणविनयः समितिगुप्तिप्रधानः । उपचारविनयोऽभ्युत्थानासनप्रदाना-अलिप्रग्रहादिभेदः । एवंविधेन विनयपरिणामेन परिणतः कर्ता विनयसम्पन्न उच्यते, तद्भावो विनयसम्पन्नता xxx||६-२३।।
-तत्त्वार्थ. सिद्ध. वृत्तौ ।। B अव० प्रतिपत्तिपुरःसरमित्युक्तमिति गुरुप्रतिपत्तिं श्लोकद्वयेन दर्शयति
अभ्युत्थानं तदालोके-ऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः, स्वयमासनढौकनम् ।। १२५ ।। आसनाभिग्रहो भक्त्या, वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति, प्रतिपत्तिरियं गुरोः ।। १२६ ।।। अभ्युत्थानं ससम्भ्रममासनत्यागः तदालोके गुरुणामालोकने सति, अभियानमभिमुखं गमनं तदागमे गुर्वागमने, शिरसि मस्तके गुरुदर्शनसमकालमञ्जलिसंश्लेष: करकोरककरणं 'नमो खमासमणाणं' ति वचनोच्चारपूर्वकम्, स्वयमित्यात्मना न तु परप्रेषणेन आसनढोकनमासनसन्निधापनम् ।।१२५ ।। आसनाभिग्रहः आसन उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रह: आसनाभिग्रहः, भक्त्या भक्तिपूर्वकं वन्दना पञ्चविंशत्यावश्यकविशुद्धं वन्दनकम्, स्थानस्थितानां च गमनादिव्याकुलत्वाभावे पर्युपासनं सेवा, तेषां गुरूणां याने गमनेऽनुगमनं पृष्ठतः कतिपयपदान्यनुसरणम् । इयं प्रतिपत्तिरुपचारविनयरूपा गुरोर्धर्माचार्यस्य ।। १२६ ।।
-योगशास्त्रे, प्र. ३ ।। ५] मूळ अनुग्रहार्थं स्वस्यातिसर्गो दानम् ।।७-३३ ।। वृ. अपरे मुक्तसम्बन्धमाचक्षते-अतिथिसंविभागे चोदनाद् दानधर्मोऽगारिणः शेषधर्मष्टाोदितः। तत्र किंलक्षणं
दानमित्याह-अनुग्रहार्थं स्वस्यातिसर्गो दानम् । अनुगृह्यतेऽनेनेत्यनुग्रहोऽन्नादिरूपकारकः प्रतिग्रहीतुः,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org