________________
११४
विस्ताररुचिरिति ज्ञातव्यः, विस्तारविषयत्वेन ज्ञानस्य रुचेरपि तद्विषयत्वादस्य ज्ञानपूर्विका हि रुचिः, यत उक्तम्-" सद्दहइ जाणति जतो” ।। २४ ।।
क्रियारुचिमाह- दर्शनं च ज्ञानं च चरित्रं च दर्शनज्ञानचरित्रं तस्मिन् प्रागुक्तरूपे तथा तपोविनये सत्याः निरुपचरितास्ताष्टा ताः समितिगुप्तयथ, यदि वा सत्यं च - अविसंवादनयोगाद्यात्मकं समितिगुप्तयष्टा सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, किमुक्तं भवति ? - दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति सः खलु निष्टिशतं क्रियारुचिः, नामिति प्रकाशम्, भण्यत इति शेषः, इह च चारित्रान्तर्गतत्वेऽपि तपःप्रभृतीनां पुनरुपादानं विशेषत एषां मुक्तयङ्गत्वख्यापनार्थम् ।।२५।।
सङ्क्षेपरुचिमाह- अनभिगृहीता अनङ्गीकृता कुदृष्टि: सौगतमतादिरूपा येन स तथा सङ्क्षेपरुचिरिति भवति ज्ञातव्यः, अविशारदः अकुशलः प्रवचने सर्वज्ञशासने 'अणभिग्गहिओ य सेसेसु 'त्ति अविद्यमानमभीति- आभिमुख्येन गृहीतं ग्रहणं - ज्ञानमस्येत्यनभिगृहीतः अनभिज्ञ इत्यर्थः चः समुच्चये, अनभिगृहीतटा - त्याह- शेषेषु कपिलादिप्रणीतप्रवचनेषु, संभवति हि जिनप्रवचनानभिज्ञोऽपि शेषप्रवचनानभिज्ञ इति तद्व्यवच्छेदार्थमेतत्, अयमाशयः - य उक्तविशेषण ः सङ्क्षेपेणैव चिलातीपुत्रवत्प्रशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स सङ्क्षेपरुचिरुच्यते ।। २६ ।। धर्मरुचिमाह-योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं जातावेकवचनम्, श्रुतधर्मम् अङ्गप्रविष्टाद्यागमस्वरूपं खलु वाक्यालङ्कारे चारित्रधर्मं वा सामायिकादि, चस्य वार्थत्वात्, श्रद्दधाति तथेति प्रतिपद्यते जिनाभिहितं तीर्थकृदुक्तं स धर्मरुचिरिति ज्ञातव्यः, धर्मेषु-पर्यायेषु धर्मे वाश्रुतधर्मादा रुचिरस्येतिकृत्वा, शिष्यमतिव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानम्, अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा क्वचित्केषांचिदन्तर्भाव इति भावनीयमिति सूत्रैकादशकार्थः । । २७ ।। कै पुनर्लिङ्गैरिदं दशविधमपि सम्यक्त्वमुत्पन्नमस्तीति श्रद्धेयमित्याहपरमत्थसंथवो वा सुदिट्ठपरमत्थसेवणा वावि । वावन्नकुदंसणवज्जणा य संमत्तसद्दहणा ||२८ । परमाष्टा ते तात्त्विकत्वेनार्थाष्टार्यमाणत्वेन परमार्थाः जीवादयस्तेषु संस्तवो गुणकीर्त्तनं तत्स्वरूपं पुनः पुनः परिभावनाजनितः परिचयो वा परमार्थसंस्तवो, वाशब्द उत्तरापेक्षः समुच्चये, तथा सुष्ठु यथावद्दर्शितया दृष्टा उपलब्धाः परमार्था जीवादयो यैस्ते सुदृष्टपरमार्था आचार्यादयस्तेषां सेवनं पर्युपासनम्, इहोत्तरत्र च ( प्राकृतत्वात् ) सूत्रत्वाच्च स्त्रीलिङ्गनिर्देशः, वेत्यनुक्तसमुच्चये, ततो यथाशक्तितद्वैयावृत्यप्रवृत्तिष्टा, अपिः पूर्वापेक्षः समुच्चये, 'वावण्णकुदंसण त्ति दर्शनशब्दः प्रत्येकमभिसम्बध्यते ततो व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शनाः - यैरवाप्यापि सम्यक्त्वं तथाविधकर्मोदयाद्वान्तम्, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयस्तेषां च वर्जनं परिहारो व्यापन्नकुदर्शनवर्जनम्, मा भूदेतदपरिहारतः सम्यक्त्वमालिन्यमिति, चः समुच्चये, सम्यक्त्वं श्रद्धीयतेऽस्तीति प्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानम्, प्रत्येकं च परमार्थसंस्तवादिभिरस्य सम्बन्धादेकवचनं चाङ्गारमर्दकादेरपि परमार्थसंस्तवादीनां सम्भवाद्व्यभिचारिता, तात्त्विकानामैवैषामिहाधिकृतत्वात्, तस्य च तथाविधानामेषामसंभवादिति सूत्रार्थः ।। - पाइयटीकोपेत- उत्तराध्ययननिर्युक्तौ ।।
Jain Education International 2010_02
ध्यानशतकम्, गाथा - ६७, ६८ razazazazazářázáza
For Private & Personal Use Only
-
www.jainelibrary.org