________________
धर्मध्याने लिङ्गद्वारम्
જે
भावानां द्रव्यादिपदार्थानाम् 'श्रद्धानम् अवितथा एत इत्यादिलक्षणं धर्मध्यानस्य “ तल्लिङ्गमिति तत्त्वश्रद्धानेन लिङ्ग्यते धर्मध्यानीति, इह चागमः सूत्रमेव, तदनुसारेण
द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा चतुष्प्रकारान् श्रद्दधाति तथेति प्रतिपद्यते स्वयमेव परोपदेशं विना, श्रद्धानोल्लेखमाह - 'एमेय'त्ति एवमेतद्यथा जिनैर्दृष्टं जीवादि, नान्यथेति नैतद्विपरीतं चः समुच्चये, सईदृनिसर्गरुचिरिति ज्ञातव्यः, निसर्गेण रुचिरस्येतिकृत्वा ||१८||
उपदेशरुचिमाह एतांष्टवानन्तरोक्तान् (तुः पूरणे) भावान् जीवादीन् पदार्थान् उपदिष्टान् कथितान् परेण अन्येन श्रदधाति कीदृशा परेण ? - छादयतीति छद्म-घातिकर्मचतुष्टयं तत्र तिष्ठति छद्मस्थः अनुत्पन्नकेवलस्तेन, जयति रागादीनिति जिनः, औणादिको नक् तेन चोत्पन्नकेवलज्ञानेन तीर्थकृदादिना, छद्मस्थस्य तु प्रागुपन्यासस्तत्पूर्वकत्वाज्जिनस्य प्राचुर्येण वा तथाविधोपदेष्टृणाम्, स ईदृक् किमित्याह - उपदेशरुचिरिति ज्ञातव्यः उपदेशेन रुचिरस्येति हेतोः ।।१९।। आज्ञारुचिमाह
रागः अभिष्वङ्गः द्वेषः अप्रीतिः मोहः शेषमोहनीयप्रकृतयः अज्ञानं मिथ्याज्ञानरूपं यस्य अपगतं नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते, अपगतशब्दष्टा लिङ्गविपरिणामतो रागादिभिः प्रत्येकमभिसम्बध्यते, एतदपगमाच्च आणाएत्ति अवधारणफलत्वाद्वाक्यस्य आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः क्वचित्कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु निष्टितमाज्ञारुचिर्नामेत्यभ्युपगमे, ततष्टथाज्ञारुचिरित्यभ्युपगन्तव्यः, आज्ञया रुचिरस्य यतः || २० |
सूत्ररुचिमाह-यः सूत्रम् आगमम् अधीयानः पठन् श्रुतेन इति सूत्रेणाधीयमानेन अवगाहते प्राप्नो तुः पूरणे सम्यक्त्वम् कीदृशा श्रुतेन ? अङ्गेन आचारादिना बाह्येन अनङ्गप्रविष्टेनोत्तराध्ययनादिना वा, वा विकल्पे, सः उक्तलक्षणो गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः, सूत्रहेतुकत्वादस्य रुचेः । । २१ ।। बीजरुचिमाह-एकेन प्रक्रमात्पदेन जीवादिना 'अणेगाइं पयाइं ति सुब्व्यत्ययाद् अनेकेषु बहुषु पदेषु जीवादिषु यः प्रसरति व्यापितया गच्छति तुः एवकारार्थः, प्रसरत्येव, सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता, तदभेदोपचारादात्माऽपि सम्यक्त्वमुच्यते, उपचारानिमित्तं च रुचिरूपेणैवात्मना प्रसरणम्, केव कः प्रसरति ? - उदक इव तैलबिन्दु:, यथोदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथा तत्त्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमवशादशेषतत्त्वेषु रुचिमान् भवति, स एवंविधो बीजरुचिर्ज्ञातव्यः, यथा हि बीजं क्रमेणानेकबीजानां जनकमेवमस्यापि रुचिर्विषयभेदतो भिन्नानां रुच्यन्तराणामिति ।। २२ ।।
अभिगमरुचिमाह - स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थ्यत इत्यर्थः - अभिधेयस्तमाश्रित्य दृष्टम् उपलब्धम्, किमुक्तं भवति ? येन श्रुतज्ञानस्यार्थोऽधिगतो भवति, किं पुनस्तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि आचारादीनि, प्रकीर्णकमिति जातावेकवचनं ततः प्रकीर्णकानि उत्तराध्ययनादीनि दृष्टिवादः परिकर्मसूत्रादि, अङ्गत्वेऽपि पृथगुपादानमस्य प्राधान्यख्यापनार्थम्, चशब्दादुपाङ्गान्यौपपातिकादीनि, अभिगमान्वितत्वादस्य रुचेः ||२३||
-
Jain Education International 2010_02
११३
Para
विस्ताररुचिमाह- द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वाद्यशेषपर्यायाः सर्वप्रमाणेः अशेषैः प्रत्यक्षादिभिर्यस्योपलब्धा यस्य यत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः 'सव्वाहिं'ति सर्वैः समस्तैः नयविधिभिर्नैगमादिभेदैरमुं भावमयममुं वाऽयं नयभेद इच्छतीति, चः समुच्चये स ईदृग्
For Private & Personal Use Only
www.jainelibrary.org