________________
११२
ध्यानशतकम्, गाथा-६७, ६८ સરસ પ્રકારના રસ
ईंह आगमो-पदेशा-ऽऽज्ञा-निसर्गतो यज्जिनप्रणीतानां तीर्थकरप्ररूपितानां
इत्थं सम्यक्त्वस्वरूपमभिधाय तद्भेदानाहनिस्सग्गुवएसरुई आणारुइ सुत्तबीयरुइमेव । अभिगमवित्थाररुई किरिया संखेवधम्मरुई ।।१६।। 'निसग्गुवएसरुतित्ति रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः स्वभावस्तेन रुचिः तत्त्वाभिल्लषरूपाऽस्येति निसर्गरुचिः, उपदेशो गुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः, आज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा ‘सुत्तबीयरूइमेव'त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण आगमेन रूचिर्यस्य स सूत्ररुचिः, बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, अनयोः समाहारद्वन्द्वः, एवेति समुच्चये, अभिगमो ज्ञानं विस्तारो व्यासस्ताभ्याम्, प्रत्येक रुचिशब्दो योज्यते, ततोऽभिगमरुचिविस्ताररुची इति, तथा क्रिया अनुष्ठानं सङ्क्षेपः सङ्ग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति, प्रत्येकं रुचिशब्दसम्बन्धात् क्रियारुचिर्धर्मरुचिः सङ्क्षपरुचिष्टा भवति विज्ञेय इति शेषः, यच्चेह सम्यक्त्वस्य जीवान्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदनन्यत्व
ख्यापनार्थमिति सूत्रसक्षेपार्थः ।। व्यासार्थं तु स्वत एवाह सूत्रकृत्भअत्थेणाहिगया जीवाऽजीवा य पुण्ण पावं च । सहसंमइआ आसवसंवरु रोएड उ निसग्गो ।।१७।। जो जिणदिढे भावे चउव्विहे सद्दहाइ सयमेव । एमेव नन्नहत्ति य निस्सग्गरुइत्ति नायव्यो ।।१८।। एए चेव उ भावे उवइढे जो परेण सहहइ । छउमत्थेण जिणे व उवएसरुइत्ति नायव्वो ।।१९।। रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ। आणाए रोयंतो सो खलु आणारुईनाम ।।२०।। जो सुत्तमहिजंतो सुएण ओगाहई उ संमतं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्यो ।।२१।। एगेण अणेगाई पयाई जो पसरई उ सम्मत्तं । उदयव्व तिल्लबिंदू सो बीयरुइति नायव्यो ।।२२।। सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिटुं । इक्कारस अंगाई पइण्णगं दिट्ठिवाओ य ।।२३।। दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा । सव्वाई नयविहीहि य वित्थाररुइत्ति नायव्यो ।।२४।। दसणनाणचरित्ते तवविणए सञ्चसमिइगुत्तीसु। जो किरियाभावरुई सो खलु किरियारुई नाम ।।२५।। अणभिग्गहियकुदिट्ठी संखेवरुइत्ति होइ नायव्यो। अविसारओ पवयणे अणभिग्गहिओ अ सेसेसु ।।२६।। जो अत्थिकायधम्मं सुयधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायव्यो ।।२७।। वृ० भूतः सद्भूतोऽवितथ इति यावत् तथाविधोऽर्थो विषयो यस्य तद्भुतार्थं ज्ञानमिति गम्यते तेन,
भावप्रधानत्वाद्वा निर्देशस्य, भूतार्थत्वेन सद्भुता अमी अर्था इत्येवंरूपेणाभिगता अधिगता वा परिच्छिन्ना येनेति गम्यते, जीवाजीवाष्टोक्तरूपाः पुण्यं पापं च, कथममी अधिगता इत्याह - सहसंमुइअत्ति सोपस्कारत्वात्सूत्रत्वाञ्च सहात्मना या संयता मतिः सहसंमति, कोऽर्थः ?-- परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, आसवसंवरे त्ति आश्रवसंवरौ, चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयष्टा, तथा रोचते श्रद्धत्ते, तुशब्दस्यैवकारार्थत्वाद्रोचत एव योऽन्यस्याश्रुतत्वादनन्तरन्यायेनाधिगतान जीवाजीवादीनेव निसर्ग इति निसर्गरुचिर्विज्ञेयः, स इति शेषः । ।१७।। अमुमेवार्थं पुनः स्पष्टतरमेवाह - यः जिनदृष्टान् तीर्थकरोपलब्धान् भावान् जीवादिपदार्थान् चतुर्विधान्
JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org