Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 256
________________ शुक्लध्याने आलम्बनानि १२३ अधुना लोभप्रतिपक्षं शौचलक्षणाविर्भावयन्नाहभा० अलोभः शौचलक्षणम् । शुचिभावः शुचिकर्म वा शौचम् ।। अलोभ इति । अलोभः शौचलक्षणम् । लोभस्तु भावतः परमार्थतोऽभिष्वङ्गप्टोतनाचेतनमिश्रवस्तुविषयः । लोभदोषाञ्च क्रोधमानमायाहिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहार्जनमलजालेनोपचीयमान आत्मा भवत्यशुचिः । तत्रालोभो-लोभाभावो न कचिन्ममत्वम्। अलोभस्य हि लोभदोषविनिमुक्तत्वान्निर्भयत्वम् । ततः स्वपरहिताभिप्रवृत्तिरित्येतदेव शौचलक्षणं मुख्यमात्मनः । एतदेव स्पष्टयतिभावविशुद्धिनिष्कल्मषता। धर्मसाधनमात्रास्वपि अनभिष्वङ्ग इत्यर्थः । अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्माच्छौचं धर्म इति ।।४।। भावविशुद्धिर्ममत्वाभावो निःसङ्गता च,अपरद्रोहेणात्मार्थानुष्ठानं निष्कल्मषता-निर्मलताभाव (धर्म)? साधनमात्राःरजोहरण - मुखवस्त्रिका-चोलपट्टक-पात्रादिलक्षणाः तास्वप्यनभिष्वङ्गो विगतमूर्छ इत्यर्थः । यस्मादशुचि र्भावकल्मषसंयुक्तः, भावकल्मषं च लोभकषायस्तस्मात् तत्त्यागः । शौचं धर्म इति, शरीरमहाव्रणप्रक्षालनादि द्रव्यशौचम्, तच्च प्रासुकैषणीयेन जलदिना निर्लेपनिर्गन्धितापादनमागमोक्तेन विधिना कार्यमिति ।। अवसरप्राप्तं पञ्चमं धर्मानं निर्दिदिक्षुराहभा० सत्यर्थे भवं वचः सत्यं, सद्भ्यो वा हितं सत्यम्, तदननृतम्, अपरुषमपिशुनमनसभ्यमचपलमनाविलम विरलमसम्भ्रान्तं मधुरमभिजातमसन्दिग्धं स्फुटमौदार्ययुक्तमग्राम्य-पदार्थाभिव्याहारमसीभरमरागद्वेषयुक्तम् ।। सन्-विद्यमानोऽर्थोऽनेकधर्मा तस्मिन् सत्यर्थे भवम्, दिगादित्वात् यत्, यथाऽवस्थितार्थप्रतिपत्तिकारी सत्यम् । नन्वेवं सति लुब्धकाय मृगाख्यानमपि सत्यं स्यात्, किं (एवं ?) तर्हि सच्छब्दः प्रशंसार्थः । प्रशंस्तोऽर्थः सन् न पापहेतुः तस्मिन् सति भवं सत्यं पक्षान्तरसमाश्रयणं वा, सद्भयो वा हितं सत्यमिति, सन्तो जीवा एव गृह्यन्ते, हितशब्दोपादानात । न ह्यजीवसम्बन्धि किञ्चिद्धितमस्ति, अतोऽप्रशस्तार्थव्यावृत्तिः । सामान्येन वा जीवाजीवेभ्यो हितम् । अनेकपर्यायकलापभाजोऽर्थाः । तेषां यथाऽवस्थितविवक्षितपर्यायप्रतिपादनं सत्यम्, एतदेव तेभ्यो हितं यद् यथार्थप्रतिपादनमिति, तस्येदानीं सत्यवचनस्य विशेषगुणानाचष्टे - तदनृतमिति । अनृतं-भूतनिह्नवः अभूतोद्भावनं विपरीतकटुकसावद्यादिवचनं, नानृतम् । ननु च सत्यपर्याय एवायम् । सत्यमेतत्, तथापि वक्ष्यमाणोत्तरगुणप्राप्त्यर्थं पुनर्वचनम् । परुषं-रूक्षं स्नेहरहितं (निष्ठुरं) परपीडाकारि । न परुषमपरुषम् । तत्राविनयेषु माध्यस्थ्यभावना, विनयेषु तु सौम्या वागपरुषम्, पिशुनं-प्रीतिविच्छेदकारि द्वयोर्बहूनां वा सत्यासत्यदोषाख्यानात्, न पिशुनमपिशुनम् । सभाहँ-सभ्यम्, न सभाहमसभ्यं-सभासु विगर्हितं विदग्धसभासु गुह्यप्रकटनामोद्घाटनवचनवत्, तस्य प्रतिषेधो नासभ्यमनसभ्यम् । चपल: अनालोचितभाषी, तद्वचनमपि चपलं तच्च दोषाक्षेपि भवति । आविलं कलुषम्, कषायवशवर्तिनो वचनम्, न आविलमनाविलं प्रसन्नवचनमिति यावत् । विरलं व० Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302