Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 239
________________ १०६ ध्यानशतकम्, गाथा-६५ stakakakakakakakakakakakakakakakakakakakakakakakakakakakakakakakakakakakaka इष्टजनसम्प्रयोगद्धिविषयसुखसम्पदस्तथारोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ।।१।। जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ।।२।। एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ।।३।। C अनित्यत्वाद्यनुप्रेक्षा, ध्यानस्योपरमेऽपि हि । भावयेनित्यमभ्रान्तः, प्राणा ध्यानस्य ताः खलु ।। ७० ।। -अध्यात्मसारे, अ. १६ ।। [२] A अव० तछेच्छता भावना भाव्या इत्याह भावयितव्यमनित्यत्वमशरणत्वं तथैकताऽन्यत्वे । अशुचित्वं संसारः, कर्मास्रवसंवरविधिश्च ।। १४९ ।। वृ. भावयितव्यं चिन्तनीयम्, किं तत् ? अनित्यत्वं १, तथा अशरणत्वं जन्माद्यभिभूतस्य नास्ति त्राणं २, तथैकताऽन्यत्वे तत्रैकत्वम्- एक एवाहमित्यादि ३, अन्यत्वम्-अन्य एवाहं स्वजनेभ्यः ४, अशुचित्वं शुक्रशोणितादीनामादि(द्युत्तर)कारणानामशुचिरूपत्वात् ५, संसार इति भवभावना माता भूत्वा [गा. १५६] इत्यादिका ६, कर्मास्त्रवश्च संवरश्च तयोविधिः, तत्र कर्मास्रवविधिना आस्रवद्वाराणि विवृतानि कर्मास्रवन्तीति भावयेत् ७, संवरविधेश्चास्रवद्वाराणां स्थगनमिति ८ ।। १४९ ।। निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ।। १५० ।। सुष्ट्वाख्यातः स्वाख्यातो धर्मश्चासौ स्वाख्यातश्च, निर्जरणं लोकविस्तरश्च धर्मस्वाख्यातश्च तेषां तत्त्वचिन्ताश्च, तत्र निर्जरणं तपसा कर्मक्षपणं ९, लोकविस्तरो-लोकायामादिः १०, धर्मस्वाख्यातश्चशोभनोऽयं धर्मो भव्यहिताय जिनैः कथितः, एषां तत्त्वचिन्तनानि ११, बोधेः सुदुर्लभत्वं चेति १२ भावना द्वादश विशुद्धा इति स्पष्टम् ।। १५० ।। अव. तत्रानित्यत्वमाह इष्टजनसम्प्रयोगद्धिविषयसुखसम्पदस्तथाऽऽरोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ।। १५१ ।। वृ. इष्टजनसम्प्रयोगश्च ऋद्धिसम्पञ्च विषयसुखसम्पञ्च, सम्पच्छब्दः प्रत्येकं सम्बध्यते, ता अनित्याः, तथा आरोग्यादीनि सर्वाण्यनित्यानीति ।। १५१ ।। अव. अशरणभावनामाह जन्मजरामरणभरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र, नास्ति शरणं क्वचिल्लोके ।। १५२ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302