________________
१०६
ध्यानशतकम्, गाथा-६५ stakakakakakakakakakakakakakakakakakakakakakakakakakakakakakakakakakakakaka
इष्टजनसम्प्रयोगद्धिविषयसुखसम्पदस्तथारोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ।।१।। जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ।।२।। एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ।।३।।
C अनित्यत्वाद्यनुप्रेक्षा, ध्यानस्योपरमेऽपि हि ।
भावयेनित्यमभ्रान्तः, प्राणा ध्यानस्य ताः खलु ।। ७० ।। -अध्यात्मसारे, अ. १६ ।। [२] A अव० तछेच्छता भावना भाव्या इत्याह
भावयितव्यमनित्यत्वमशरणत्वं तथैकताऽन्यत्वे ।
अशुचित्वं संसारः, कर्मास्रवसंवरविधिश्च ।। १४९ ।। वृ. भावयितव्यं चिन्तनीयम्, किं तत् ? अनित्यत्वं १, तथा अशरणत्वं जन्माद्यभिभूतस्य नास्ति त्राणं २,
तथैकताऽन्यत्वे तत्रैकत्वम्- एक एवाहमित्यादि ३, अन्यत्वम्-अन्य एवाहं स्वजनेभ्यः ४, अशुचित्वं शुक्रशोणितादीनामादि(द्युत्तर)कारणानामशुचिरूपत्वात् ५, संसार इति भवभावना माता भूत्वा [गा. १५६] इत्यादिका ६, कर्मास्त्रवश्च संवरश्च तयोविधिः, तत्र कर्मास्रवविधिना आस्रवद्वाराणि विवृतानि कर्मास्रवन्तीति भावयेत् ७, संवरविधेश्चास्रवद्वाराणां स्थगनमिति ८ ।। १४९ ।। निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ।। १५० ।। सुष्ट्वाख्यातः स्वाख्यातो धर्मश्चासौ स्वाख्यातश्च, निर्जरणं लोकविस्तरश्च धर्मस्वाख्यातश्च तेषां तत्त्वचिन्ताश्च, तत्र निर्जरणं तपसा कर्मक्षपणं ९, लोकविस्तरो-लोकायामादिः १०, धर्मस्वाख्यातश्चशोभनोऽयं धर्मो भव्यहिताय जिनैः कथितः, एषां तत्त्वचिन्तनानि ११, बोधेः सुदुर्लभत्वं चेति
१२ भावना द्वादश विशुद्धा इति स्पष्टम् ।। १५० ।। अव. तत्रानित्यत्वमाह
इष्टजनसम्प्रयोगद्धिविषयसुखसम्पदस्तथाऽऽरोग्यम् ।
देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ।। १५१ ।। वृ. इष्टजनसम्प्रयोगश्च ऋद्धिसम्पञ्च विषयसुखसम्पञ्च, सम्पच्छब्दः प्रत्येकं सम्बध्यते, ता अनित्याः,
तथा आरोग्यादीनि सर्वाण्यनित्यानीति ।। १५१ ।। अव. अशरणभावनामाह
जन्मजरामरणभरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र, नास्ति शरणं क्वचिल्लोके ।। १५२ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org