SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ धर्मध्याने अनुप्रेक्षाः १०७ अन्योऽहं स्वजनात्परिजनाच्च विभवाच्छरीरकाच्चेति । . यस्य नियता मतिरियं न बाधते तं हि शोककलि: ।।४।। अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच्च । देहस्याशुचिभावः स्थाने स्थाने भवति चिन्त्यः ।।५।। माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ।।६।। वृ० लोके क्वचित्रास्ति शरणमिति योगः । कीदृशे ? अभिद्रुते अभिभूते। कैः ? जन्मजरामरणेभ्यो भयानि तैः, तथा व्याधिवेदनाग्रस्ते । ततः किं ? नास्ति न विद्यते । किं तत् ? शरणं त्राणम्, क्व ? अन्यत्र । कस्मात् ? जिनवरवचनात् सर्वज्ञागमादिति ।। १५२ ।। अव. एकत्वभावनामाह एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहित-मेकेनैवात्मनः कार्यम् ।। १५३ ।। वृ. एकस्य जीवस्य जन्ममरणे भवत इति शेषः । तथा गतयश्च शुभाशुभाः, तत्र देवमनुष्यगती शुभे नरकतिर्यग्गती अशुभे भवतः । क्व ? भवावर्ते संसारे पुनःपुनर्धमणे । तस्मादाकालिकंसदाभावि हितं पथ्यमेकेनैव जीवनात्मनः स्वस्य कार्यं करणीयं तञ्च हितं संयमानुष्ठानमित्यर्थ इति ।। १५३ ।। अव. अन्यत्वभावनामाह अन्योऽहं स्वजनात्परिजनाञ्च विभवाच्छरीरकाश्चेति । यस्य नियता मतिरियं, न बाधते तं हि शोककलिः ।। १५४ ।। वृ. न बाधते न पीडयति, कः? शोककलिः कलिकालस्वरूपं कम् ? तं जीवम् । हिशब्दः स्फुटार्थो यस्य नियता निश्चिता, काऽसौ ? मतिः बुद्धिरियमेवेति अन्यतोलेखेन, अन्योऽहं स्वजनात् पित्रादेः परिजनाद् दासादेविभवात् कनकादेः शरीराद् देहाद्, एतेभ्यो भिन्नोऽहमिति ।। १५४ ।। अव. अशुचित्वमाह अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाञ्च । देहस्याशुचिभावः, स्थाने स्थाने भवति चिन्त्यः ।। १५५ ।। वृ. भवति जायते चिन्त्यः चिन्तनीयः, कः? अशुचिभावः जुगुप्सनीयत्वम्, क्व? स्थाने स्थाने शिरःकपालादिषु । कस्य? देहस्य तनोः । कस्मात् ? अशुचिकरणसामर्थ्यात् शुचिनोऽपि द्रव्यस्य कर्पूरादेरशुचिकरणसामर्थ्यमस्त्येव । तथा आधुत्तरकारणाशुचित्वाञ्च, कारणशब्दस्य प्रत्येकं योजनाद् आदिकारणोत्तरकारणयोरशुचित्वात्, तत्रादिकारणं शुक्रशोणितादि उत्तरकारणं तु जनन्याऽभ्यवहतस्याहारस्य रसहरण्योपनीतस्य रसस्यास्वादनमत्यन्ताशुचिरिति ।। १५५ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy