________________
१०८
ध्यानशतकम्, गाथा-६५ Parastaramatarataruaatarakararararararatarntaraarastaramanratatasters
मिथ्यादृष्टिरविरतः प्रमादवान् यः कषायदण्डरुचिः । तस्य तथास्रवकर्मणि यतेत तन्निग्रहे तस्मात् ।।७।। या पुण्यपापयोरग्रहणे वाक्कायमानसी वृत्तिः । सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः ।।८।। यद्वद्विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः । तद्वत्कर्मोपचितं निर्जरयति संवृतस्तपसा ।।९।। अव० संसारभावनामधिकृत्याह
माता भूत्वा दुहिता, भगिनी भार्या च भवति संसारे ।
व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ।। १५६ ।। वृ० माता भूत्वा दुहिता पुत्रिका भवति । तथा भगिनी च सहोदरी भार्या भवति । क्व ?
संसारे । तथा व्रजति याति। सुतः पुत्रः । काम्? पितृतां जनकत्वं भ्रातृतां बन्धुत्वं पुनः
शत्रुतां वैरित्वं चैवेति ।। १५६ ।। अव. आस्रवभावनामुररीकृत्याह
मिथ्यादृष्टिरविरतः, प्रमादवान् यः कषायदण्डरुचिः ।
तस्य तथाऽऽस्रवकर्मणि, यतेत तत्रिग्रहे तस्मात् ।। १५७ ।। वृ० मिथ्यादर्शनादयः पञ्चापि पूर्वोक्ताः । यच्छब्दः पञ्चस्वपि योज्यः । ततो मिथ्यादृष्टियों जीव स्तथा
अविरतः प्रमादवान्। रुचिशब्दोऽपि प्रत्येकं योज्यः। ततः कषायरुचिर्दण्डरुचिः। तस्य जीवस्य आस्रवकर्मणि कर्मास्रवे सति, तथा तेन प्रकारेण तत्रिग्रहे आस्रवनिग्रहे यतेत यत्नं कुर्वीत, यतिरिति शेषः । यत्तदोनित्याभिसम्बन्धाद् यथाऽऽस्रवविशेषा न भवन्तीत्यर्थः । कस्मात् ?
तस्माद्भावनाबलादिति ।। १५७ ।। अव. संवरभावनामाह
या पुण्यपापयोरग्रहणे वाकायमानसी वृत्तिः। सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः ।। १५८ ॥ यत्तदोर्नित्याभिसम्बन्धात् संवरः आस्रवनिरोधलक्षणश्चिन्त्यः चिन्तनीयो भवति । या केत्याह - या वृत्तिः व्यापारः, पाठान्तरे गुप्तिः-गोपनम् । कीदृशी ? वाक्कायमानसी, एतद्भावात्, क्व? अग्रहणे अनुपादाने । कयोः? पुण्यं कर्म-सातादिद्विचत्वारिंशद्भेदं पापं कर्म-ज्ञानावरणीयादि द्व्यशीतिभेदम्, उभयमपि वक्ष्यमाणम्, ततो द्वन्द्वः, तयोरग्रहणं च संवृतास्रवद्वारस्य भवति, ततो न पुण्यमादत्ते, न पापमिति । कीदृशः संवरः ? सुसमाहितः सुष्ट्वात्मन्यारोपितः । तथा हित आयत्यां तथा वरदाः तीर्थकरास्तैर्देशितः कथित इति
समासः ।। १५८ ।। अव. निर्जराभावनामाह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org