SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ धर्मध्याने अनुप्रेक्षाः १०९ staramataramataramatatakarararamatatatakaratanararatatarnatakalatakare लोकस्याधस्तिर्यग, विचिन्तयेदूर्ध्वमपि च बाहल्यम् । . सर्वत्र जन्ममरणे रूपिद्रव्योपयोगांश्च ।।१०।। धर्मोऽयं स्वाख्यातो जगद्धितार्थे जिनैर्जितारिगणैः । येऽत्र रतास्ते संसारसागरं लीलयोत्तीर्णाः ।।११।। यद्वद्विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः । तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ।। १५९ ।। वृ. यद्वद् यथा शोषणाद् लङ्घनादिकाद् यत्नेन महादरेण उपचितोऽपि पुष्टोऽपि ज्वरादिदोषो जीर्यते हानि याति, दृष्टान्तः । दार्टान्तिकमाह - तद्वत्-तथा कर्म ज्ञानावरणादिकमुपचितं बद्धादि निर्जरयति क्षपयति संवृतो निरुद्धास्रवद्वारो जीवः । केन ? तपसा अनशनादिनेति ।। १५९ ।। अव. लोकभावनामाह लोकस्याधस्तिर्यग, विचिन्तयेदूर्ध्वमपि च बाहल्यम् । सर्वत्र जन्ममरणे, रूपिद्रव्योपयोगांश्च ।। १६० ।। वृ. लोकस्य जीवाजीवाधारक्षेत्रस्यास्तिर्यगूर्ध्वमपि च बाहल्यं विस्तरं विचिन्तयेत् । तत्राधः सप्तरज्जुप्रमाणो लोकः, तिर्यग् रज्जुप्रमाणः, ऊर्ध्वं ब्रह्मलोके पञ्चरज्जुप्रमाणः, पर्यन्ते रज्जुप्रमाणः, चशब्दादुर्वाधश्चतुर्दशरज्जुप्रमाणः। सर्वत्र जन्ममरणे समनुभूते, नास्त्येकोऽप्याकाशप्रदेशो यत्र न जातं न मृतं वा मयेति । रूपिद्रव्योपयोगांश्च रूपाणि च तानि द्रव्याणि च - परमाणुप्रभृतीन्यनन्तानन्तस्कन्धपर्यवसानानि तेषामुपयोगाः - परिभोगा मनोवाक्कायादिभिः कृतास्तांश्च । न च तैस्तृप्त इति चिन्तयेदिति ।। १६० ।। अव० स्वाख्यातधर्मभावनामाह धर्मोऽयं स्वाख्यातो जगद्धितार्थं जिनैर्जितारिगणैः ।। येऽत्र रतास्ते संसारसागरं लीलयोत्तीर्णाः ।। १६१ ।। वृ. इति व्यक्तम् ।। १६१ ।। अव. दुर्लभबोधिकभावनामाह मानुष्यकर्मभूम्यार्यदेशकुलकल्पताऽऽयुरुपलब्धौ । श्रद्धाकथकश्रवणेषु, सत्स्वपि सुदुर्लभा बोधिः ।। १६२ ।। मानुष्यं नरत्वं कर्मभूमिः भरतादि पञ्चदशधा आर्यदेशो मगधादिः कुलम् उग्रादि कल्पता नीरोगता आयुः दीर्घायुष्कं तेषां षण्णां कृतद्वन्द्वानामुपलब्धिः प्राप्तिस्तत्र, तथा श्रद्धा च धर्मजिज्ञासा कथकश्च आचार्यादिः श्रवणं च आकर्णनं तानि, तेष्वप्येतेषु नवस्वप्युत्तरोत्तरदुष्प्रापेषु दुर्लभा बोधिः दुष्प्रापः सम्यक्त्वलाभ इति ।। १६२ ।। -प्रशमरतौ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy