________________
११०
ध्यानशतकम्, गाथा-६६ asketstarawatskskskskskskskskakakakakakakakakakakakakakakakakakakakakata
मानुष्यकर्मभूम्यार्यदेशकुलकल्पतायुरुपलब्धौ । श्रद्धाकथकश्रवणेषु सत्स्वपि सुदुर्लभा बोधिः ।।१२।। [प्रशम.१५१-१६२] इत्यादिना ग्रन्थेन।
फलं चासां सचित्तादिष्वनभिष्वङ्ग-भवनिर्वेदाविति भावनीयम्। अथ किंविशिष्टोऽनित्यादिचिन्तनापरमो भवतीति ? अत आह - सुभावितचित्तः सुवासितान्तःकरणः, केन ? धर्मध्यानेन प्राग्निरूपितस्वरूपेण । यः कश्चित् पूर्वम् आदाविति गाथार्थः ।।६५ ।। गतमनुप्रेक्षाद्वारम्, अधुना लेश्याद्वारप्रतिपिपादयिषयाह -
होंति कमविसुद्धाओ लेसाओ पीय-पम्म-सुक्काओ ।
धम्मज्झाणोवगयस्स तिव्व-मंदाइभेयाओ ।।६६।। होंति० गाहा ।। इह भवन्ति सञ्जायन्ते क्रमविशुद्धाः परिपाटिविशुद्धाः, काः ? लेश्यास्ताश्च पीत-पद्म-शुक्लाः । एतदुक्तं भवति-पीतलेश्यायाः पद्मलेश्या विशुद्धा, तस्या अपि शुक्ललेश्येति क्रमः। कस्यैता भवन्ति ? अत आह - धर्मध्यानोपगतस्य [२]A तेजोपम्हासुक्कालेसाओ तिण्णि अण्णतरिगाओ । उववातो कप्पतीते कप्पंमि व अण्णतरगंमि ।।८।।
धम्मज्झाणं झियायंतो, सुक्कलेसाए वट्टती । विक्किट्ठगंमि ठाणंमि, सचरित्ती सुसंजतो ।। ९ ।। एवं पम्हालेसाए मज्झियगंमि ठाणंमि, तेऊलेसाए कणिट्ठगंमि ठाणंमि । कोवनिग्गहसंजुत्तो, सुक्कलेसाणुरंजितो, धम्मझाणं झियायंतो, देवयत्तं निगच्छती ।। १० ।। ति। एवं माणमायालोभनिग्गहेऽवि, एवं पम्हाएवि, तेऊएवि लेसाए । -आवश्यकचूर्णा ।। B अव. धर्म्यध्यानस्यैव स्वरूपविशेषमाह
धर्म्यध्याने भवेद् भावः क्षायोपशमिकादिकः । लेश्याः क्रमविशुद्धाः स्युः पीत-पद्म-सिताः पुनः ।। १६ ।। क्षायोपशमिकादिक इत्यादिग्रहणादौपशमिकस्य क्षायिकस्य च ग्रहणम्, न त्वौदयिकस्य । यदाह"धर्म्यमप्रमत्तसंयतस्य उपशान्त-क्षीणकषाययोश्च ।" [तत्त्वार्थ० ९/३७-३८] धर्म्यध्याने च क्रमेण विशुद्धास्तिस्रो लेश्या भवन्ति, तद्यथा-पीतलेश्या, ततोऽपि विशुद्धा पद्मलेश्या, ततोऽपि विशुद्धतरा शुक्ललेश्येति ।। १६ ।।
-योगशास्त्रे, प्र. १० ।। C तीव्रादिभेदभाजः स्युलेश्यास्तिस्र इहोत्तराः । लिङ्गान्यत्राऽऽगमश्रद्धा विनयः सद्गुणस्तुतिः ।। ७१ ।।
- अध्यात्मसारे, अ. १६ ।। D पीता पद्मा च शुक्ला च लेश्यात्रयमिति स्मृतम् । धर्मस्य क्रमशः शुद्धं कैश्चिच्छुक्लेव केवला ।। १९० ।। धर्मध्यानस्य विज्ञेया स्थितिश्चान्तर्मुहूर्तिकी । क्षायोमशमिको भावो लेश्या शुक्लेव केवला ।। १९१ ।।
-ध्यानदीपिकायाम् ।
वृ.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org