Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
१०४
उपरतक्रियाऽप्रतिपातलक्षणयोर्यथासंख्यं सयोगायोगाः केवलिनो ध्यातार इति योग
1
C मू०
xxx शुक्ले चाद्ये पूर्वविदः ।। ९-३७ ।।
वृ० वक्ष्यमाणेषु शुक्लध्यानविकल्पेषु आद्ये शुक्लध्याने पूर्वविदो भवतः श्रुतकेवलिन इत्यर्थः । चशब्देन धर्म्यमपि समुच्चीयते । तत्र 'व्याख्यानतो विशेषप्रतिपतिः ' इति श्रेण्यारोहणात्प्राग्धर्म्यम्, श्रेण्योः शुक्ले इति व्याख्यायते ।। - तत्त्वार्थ सर्वा वृत्तौ ॥
D अव० शुक्लध्यानस्याधिकारिणं निरूपयति
इदमादिमसंहनना एवालं पूर्ववेदिनः कर्तुम् ।
स्थिरतां न याति चित्तं कथमपि यत् स्वल्पसत्त्वानाम् ।। २ ।।
xxx आदिमं वज्रर्षभनाराचसंहननं येषां ते तथा । सकलश्रुतात् पूर्वं प्रणयनात् पूर्वाणि तानि विदन्तीत्येवंशीलाः पूर्ववेदिनः पूर्वधराः । इदं च प्रायिकम्, माषतुष- मरुदेव्यादीनामपूर्वधराणामपि शुक्लध्यानसंभवात् । आदिमसंहनना इत्यस्य स्थिरतामित्यादिना हेतुरुक्तः ।। २ ।। अव० इदमेव भावयति
वृ०
वृ०
धत्ते न खलु स्वास्थ्यं व्याकुलितं तनुमतां मनो विषयैः ।
शुक्लध्याने तस्मान्नास्त्यधिकारोऽल्पसाराणाम् ।। ३ ।।
स्पष्टम् । यदाह
“छिन्ने भिन्ने हते दग्धे देहे स्वमपि दूरगम् । प्रपश्यन् वर्ष - वातादिदुःखैरपि न कम्पते ।। १ ।। न पश्यति तदा किञ्चिन्न श्रुणोति न जिघ्रति । स्पष्टं किञ्चिन्न जानाति लेप्यनिर्वृत्तमूर्त्तिवत् ।। २ ।।” इति ।। ३ ।।
अव० ननु यद्यादिमसंहननानां शुक्लध्यानेऽधिकारस्तदानीं सेवार्तसंहननानां पुरुषाणां शुक्लध्यानोपदेशे कोऽवसरः ?
इत्याह
ध्यानशतकम्, गाथा - ६४
Azazaza
अनवच्छित्त्याऽऽम्नायः समागतोऽस्येति कीर्त्यतेऽस्माभिः । दुष्करमप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् ।। ४ ।।
वृ० यद्यप्यैदंयुगीनानां न शुक्लध्यानेऽधिकारस्तथापि संप्रदायाविच्छेदार्थं तदुपदेश इत्यर्थः ।। ४ ।। - योगशास्त्रे, प्र. ११ ।।
E ध्याताऽयमेव शुक्लस्या- प्रमत्तः पादयोर्द्वयोः । पूर्वविद् योग्ययोगी च, केवली परयोस्तयोः ।। ६९ ।। - अध्यात्मसारे, अ. १६ ।।
A अव० अथ पश्चाच्छुक्लध्यानद्वयस्य कः स्वामीति तन्निर्दिदिक्षयोवाच
परे केवलिनः ।। ९-४१ ।।
वृ०
मू०
।। ४१ ।।
भा० परे द्वे शुक्ले ध्याने केवलिन एव भवतः, न छद्मस्थस्य अत्राह-उक्तं भवता पूर्वे शुक्ले ध्याने परे शुक्ले ध्याने इति । तत् कानि तानीति ? अत्रोच्यतेपरं च परं च परे सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियं चानिवर्ति ग्रहीतव्यम्, ते च केवलिन एव त्रयोदश चतुर्दशगुणस्थानक्रमेणैव भवतः । छद्मस्थस्य तु नैते जातुचिद् भवत इति x x x 11 - तत्त्वार्थ सिद्ध वृत्तौ ।।
Jaini Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302