SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १०४ उपरतक्रियाऽप्रतिपातलक्षणयोर्यथासंख्यं सयोगायोगाः केवलिनो ध्यातार इति योग 1 C मू० xxx शुक्ले चाद्ये पूर्वविदः ।। ९-३७ ।। वृ० वक्ष्यमाणेषु शुक्लध्यानविकल्पेषु आद्ये शुक्लध्याने पूर्वविदो भवतः श्रुतकेवलिन इत्यर्थः । चशब्देन धर्म्यमपि समुच्चीयते । तत्र 'व्याख्यानतो विशेषप्रतिपतिः ' इति श्रेण्यारोहणात्प्राग्धर्म्यम्, श्रेण्योः शुक्ले इति व्याख्यायते ।। - तत्त्वार्थ सर्वा वृत्तौ ॥ D अव० शुक्लध्यानस्याधिकारिणं निरूपयति इदमादिमसंहनना एवालं पूर्ववेदिनः कर्तुम् । स्थिरतां न याति चित्तं कथमपि यत् स्वल्पसत्त्वानाम् ।। २ ।। xxx आदिमं वज्रर्षभनाराचसंहननं येषां ते तथा । सकलश्रुतात् पूर्वं प्रणयनात् पूर्वाणि तानि विदन्तीत्येवंशीलाः पूर्ववेदिनः पूर्वधराः । इदं च प्रायिकम्, माषतुष- मरुदेव्यादीनामपूर्वधराणामपि शुक्लध्यानसंभवात् । आदिमसंहनना इत्यस्य स्थिरतामित्यादिना हेतुरुक्तः ।। २ ।। अव० इदमेव भावयति वृ० वृ० धत्ते न खलु स्वास्थ्यं व्याकुलितं तनुमतां मनो विषयैः । शुक्लध्याने तस्मान्नास्त्यधिकारोऽल्पसाराणाम् ।। ३ ।। स्पष्टम् । यदाह “छिन्ने भिन्ने हते दग्धे देहे स्वमपि दूरगम् । प्रपश्यन् वर्ष - वातादिदुःखैरपि न कम्पते ।। १ ।। न पश्यति तदा किञ्चिन्न श्रुणोति न जिघ्रति । स्पष्टं किञ्चिन्न जानाति लेप्यनिर्वृत्तमूर्त्तिवत् ।। २ ।।” इति ।। ३ ।। अव० ननु यद्यादिमसंहननानां शुक्लध्यानेऽधिकारस्तदानीं सेवार्तसंहननानां पुरुषाणां शुक्लध्यानोपदेशे कोऽवसरः ? इत्याह ध्यानशतकम्, गाथा - ६४ Azazaza अनवच्छित्त्याऽऽम्नायः समागतोऽस्येति कीर्त्यतेऽस्माभिः । दुष्करमप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् ।। ४ ।। वृ० यद्यप्यैदंयुगीनानां न शुक्लध्यानेऽधिकारस्तथापि संप्रदायाविच्छेदार्थं तदुपदेश इत्यर्थः ।। ४ ।। - योगशास्त्रे, प्र. ११ ।। E ध्याताऽयमेव शुक्लस्या- प्रमत्तः पादयोर्द्वयोः । पूर्वविद् योग्ययोगी च, केवली परयोस्तयोः ।। ६९ ।। - अध्यात्मसारे, अ. १६ ।। A अव० अथ पश्चाच्छुक्लध्यानद्वयस्य कः स्वामीति तन्निर्दिदिक्षयोवाच परे केवलिनः ।। ९-४१ ।। वृ० मू० ।। ४१ ।। भा० परे द्वे शुक्ले ध्याने केवलिन एव भवतः, न छद्मस्थस्य अत्राह-उक्तं भवता पूर्वे शुक्ले ध्याने परे शुक्ले ध्याने इति । तत् कानि तानीति ? अत्रोच्यतेपरं च परं च परे सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियं चानिवर्ति ग्रहीतव्यम्, ते च केवलिन एव त्रयोदश चतुर्दशगुणस्थानक्रमेणैव भवतः । छद्मस्थस्य तु नैते जातुचिद् भवत इति x x x 11 - तत्त्वार्थ सिद्ध वृत्तौ ।। Jaini Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy