________________
शुक्लध्याने ध्यातृस्वरूपम्
१०३
उक्ता धर्मध्यानस्य ध्यातारः, साम्प्रतं शुक्लध्यानस्याप्याद्यभेदद्वयस्याविशेषेण एत एव यतो ध्यातार इत्यतो मा भूत्पुनरभिधेया भविष्यन्तीति लाघवार्थं चरमभेदद्वयस्य प्रसङ्गतस्तानेवाभिधित्सुराह -
एतेच्चिय पुव्वाणं पुवधरा सुप्पसत्थसंघयणा ।
दोण्ह सजोगाजोगा सुक्काण पराण केवलिणो ।।६४।। एतेञ्चिय० गाहा ।। एत एव येऽनन्तरमेव धर्मध्यानध्यातार उक्ताः पूर्वयोः इत्याद्ययोर्द्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारमेकत्ववितर्कमविचारमित्यनयोः, ध्यातार इति गम्यते, अयं पुनर्विशेषः - पूर्वधराश्चतुर्दशपूर्वविदस्तदुपयुक्ताः, इदं च पूर्वधरविशेषणमप्रमादवतामेव वेदितव्यं न निर्ग्रन्थानाम्, माषतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, सुप्रशस्तसंहनना इत्याद्यसंहननयुक्ताः, इदं पुनरोघत एव विशेषणमिति तथा द्वयोः शुक्लयोः परयोः उत्तरकालभाविनोः प्रधानयोर्वा सूक्ष्मक्रियानिवृत्ति
२] A पढमं बीयं च सुक्कं, झायंती पुव्वजाणगा । उवसंतेहिं कसाएहिं, खीणेहि व महामुणी ।। ६ ।।
बीयस्स य ततियस्स य अंतरियाए केवलनाणं उप्पज्जति । दोण्णी सुत्तणाणीगा झाणा, दुवे केवलणाणिगा । खीणमोहा ज्झियायंती, केवली दोण्णि उत्तमे ।। ७ ।।
-आवश्यकचूर्णा ।। B मू. शुक्ले चाद्ये ।। ९-३९ ।। ___ भा० शुक्ले चाद्ये ध्याने पृथक्त्ववितर्केकत्ववितकें चोपशान्तक्षीणकषाययोर्भवतः ।। ३९।। वृ. शुक्ले चाये चेति । शुक्ले ध्याने उपशान्तक्षीणकषाययोर्भवतः । के पुनस्ते ? पृथक्त्वैकत्ववितर्के । xxx ।। ३९ ।।
-तत्त्वार्थ. सिद्ध. वृत्तौ ।। मू. पूर्वविदः ।। ९-४० ।। भा० आद्ये शुक्ले ध्याने पृथक्त्ववितर्केकत्ववितर्के पूर्वविदो भवतः ।। ४० ।।
पूर्वविदो यो उपशान्तक्षीणकषायो तयोर्भवतः । सूत्रान्तरमिव व्याचष्टे, न तु परमार्थतः पृथक् सूत्रम् । पूर्वं प्रणयनात् पूर्वाणि चतुर्दश तद्विदः पूर्वविदस्ते भवन्ति नैकादशाङ्गविदः ।। एवमाद्यशुक्लध्यानद्वयस्य स्वामिनियमनं विहितम् ।। ४० ।।
-तत्त्वार्थ, सिद्ध. वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org