________________
१०२
ध्यानशतकम्, गाथा-६३ tarakarakaratatarnatakaradstarawatsarakarakararatatatastaaranasala । सदृष्टिज्ञानवृत्तानि, मोहक्षोभविवर्जितः । यश्चात्मनो भवेद् भावो, धर्मः शर्मकरो हि सः ।। १४ ।।
अनपेतं ततो धर्माद्, धर्मध्यानमनेकधा । शमकक्षपकयोः प्राक्, श्रेणिभ्यामप्रमत्तके ।। १५ ।। मुख्यं धर्म्य प्रमत्तादि-त्रये गौणं हि तत्प्रभो । धर्म्यमेवातिशुद्धं स्या-च्छुक्लं श्रेण्योश्चतुर्विधम् ।। १६ ।।
-ज्ञानार्णवे, सर्ग -२५ ।। तात्पर्यार्थः
धर्मध्यानस्वामिविचारणा श्रीतत्त्वार्थसूत्रस्य सिद्धसेनीय-हारीभद्रवृत्त्योः, “अप्रमत्तादारभ्य क्षीणमोहगुणस्थानकवर्तिनो महात्मानो धर्मध्यानाधिकारिणो भवन्ति" इति निरूपितम् । गुणस्थानकक्रमारोहे, “षट्कर्म-प्रतिमा-ऽणुव्रतपालनेन प्रादुर्भूतं मध्यमधर्मध्यानं पञ्चमगुणस्थानके गौणत्वेन तथा देशविरतिपरिणामविशुद्ध्या तद् अधिकाधिकं भवति", “षष्ठगुणस्थानके प्रमादसत्त्वाद् मध्यमधर्मध्यानस्य गौणता निरालम्बनध्यानस्यासंभवश्च" तथा "अप्रमत्तावस्थायां तु उत्कृष्टमध्यमधर्मध्यान-निरालम्बनध्याने भवतः" इति दर्शितम् । योगबिन्दौ, “अध्यात्मभावनायोगी व्यवहारेण अपुनर्बन्धकाविरतसम्यग्दृष्टीन् तथा निश्चयेन तो चारित्रिण एव भवतः, ध्यानादियोगास्तु उभयापेक्षया चारित्रिण एव उत्तरोत्तरशुद्धिमपेक्ष्य तात्विका एव भवन्ति" इति ज्ञापितम् । दिगम्बराम्नायानुसारिषु तत्वार्थसर्वार्थसिद्धि-श्रावकाचार-तत्वार्थवार्तिकेषु, चतुर्थगुणस्थानकादारभ्य सप्तमपर्यन्तं धयं स्वीकृतम् । वार्तिके विशेषतो निरूपितम्, “धयं सम्यक्त्वेनोद्भूतत्वाद् अविरतादयः अपि तस्य स्वामिनः भविष्यन्ति, न तु अप्रमत्ताः एव । तथा उपशान्तक्षीणकषाययोः धर्म्यं न भवति, शुक्लाभावप्रसङ्गात्, यतः आर्षे श्रेण्योः धर्म्य नेष्यते ।" आदिपुराण-तत्त्वानुशासन-ज्ञानार्णवादिषु, तात्त्विकधर्मध्यानस्य स्वामिन अप्रमत्ताः तथा औपचारिकस्य तस्य स्वामिनः प्रमत्तादय इति देशितम् । ध्यानस्तवे, धर्मध्यानं प्रधानतः अप्रमत-उपशामक-क्षपकान् तथा गौणतः प्रमत्तादीन् संभवति इति स्पष्टीकृतम् । षटखंडागम-धवलाटीकायां, अविरतादारभ्य क्षीणमोहपर्यन्ता धर्मध्यानस्य स्वामिनो भवन्ति इति कथितम् । तन्निष्कर्षोऽयम् निश्चयनयेन, तात्विकधर्मध्यानाधिकारिण आऽप्रमत्तात् क्षीणमोहपर्यन्ता घटन्ति । व्यवहारनयेन, तात्विकधर्मध्यानाधिकारिणः प्रधानरूपेण त एव तथा देशविरतसर्वविरतयोः प्रमाददशायुक्तत्वाद् गौणरूपेण तात्विकधर्मध्यानाधिकारिणौ संभवतः । अविरतस्तु व्यवहारनयेनापि औपचारिक: एव अधिकारी भविष्यति । पुनः सालम्बननिरालम्बनध्यानद्वयसत्ता अप्रमत्तादिगुणस्थानकेषु, किन्तु प्रमत्तादिगुणस्थानकेषु सालम्बनमेव न तु निरालम्बनध्यानम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org