________________
धर्मध्याने ध्यातृद्वारम्
१०१
वृ. xxx तस्मादनपेतं धयं ध्यानं चतुर्विकल्पमवसेयम् । तदविरत-देशविस्त-प्रमत्ताऽ-प्रमत्तसंयतानां भवति ।।
-तत्त्वार्थ. सर्वा. वृत्तौ ।। C मू. आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ।। ९-३६ ।। वृ. xxx धर्म्यमप्रमत्तस्येति चेत्, न, पूर्वेषां विनिवृत्तिप्रसङ्गात् ।। १३ ।। कश्चिदाह- धर्म्यमप्रमत्तसंयतस्यैवेति,
तन्न, किं कारणम्? पूर्वेषां विनिवृत्तिप्रसङ्गात् । असंयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयतानामपि धर्म्यध्यानमिष्यते सम्यक्त्वप्रभवत्वात् । यदि धर्म्यमप्रमत्तस्यैवैत्युच्येत तर्हि; तेषां निवृत्तिः प्रसज्येत् । उपशान्तक्षीणकषाययोश्चेति चेत्, न, शुक्लाभावप्रसङ्गात् ।। १४ ।। कश्चिदाह-उपशान्तक्षीणकषाययोश्च धर्म्य ध्यानं भवति न पूर्वेषामेवेति; तन्नः किं कारणम् ? शुक्लाभावप्रसङ्गात् । उपशान्तक्षीणकषाययोर्हि शुक्लध्यानमिष्यते तस्याभावः प्रसज्येत। तदुभयं तत्रेति चेत्, न; पूर्वस्यानिष्टत्वात् । १५ । स्यादेतत् - उभयं धर्म्य शुक्लं चोपशान्तक्षीणकषाययोरस्तीति? तन्न; किं कारणम् ? पूर्वस्यानिष्टत्वात् । पूर्वं हि धर्म्य ध्यानं श्रेण्योर्नेष्यते आर्षे, पूर्वेषु चेष्यते । xxx ।। ९-३६ ।। आह - यदि धर्म्यध्यानमविरतदेशविरतप्रमत्ताप्रमत्तसंयतान्तानां भवति, अथ शुक्लध्यानं कस्येति? xxx
-तत्त्वार्थवार्तिके ।। D तदप्रमत्ततालम्बं, स्थितिमान्तर्मुहूर्तिकीम् । दधानमप्रमत्तेषु, परां कोटिमधिष्ठितम् ।। १५५ ।। सदृष्टिषु यथाम्नायं, शेषेष्वपि कृतस्थितिः । प्रकृष्टशुद्धिमल्लेश्या-त्रयोपोद्बलबृंहितम् ।। १५६ ।।
-आदिपुराणे, पर्व २१ ।। E अनपेतस्य धर्म्यस्य, धर्मतो दशभेदतः। चतुर्थः पञ्चमः षष्ठः, सप्तमश्च प्रवर्तकः ।। १७ ।।
- अमि. श्रावकाचारे, परि. १५ ।। F तत्रासत्रीभवन्मुक्तिः, किञ्चिदासाद्य कारणम् । विरक्तः कामभोगेभ्य-स्त्यक्तसर्वपरिग्रहः ।। ४१ ।।
अभ्येत्य सम्यगाचार्य, दीक्षां जैनेश्वरीं श्रितः । तपःसंयमसम्पन्नः, प्रमादरहिताशयः ।। ४२ ।। सम्यग्निीतजीवादि-ध्येयवस्तुव्यवस्थितिः । आर्त्तरौद्रपरित्यागा-लब्धचित्तप्रसत्तिकः ।। ४३ ।। मुक्तलोकद्वयापेक्षः, षोढाऽशेषपरिषहः । अनुष्ठितक्रियायोगो, ध्यानयोगे कृतोद्यमः ।। ४४ ।। महासत्वः परित्यक्त-दुर्लेश्याऽशुभभावनः । इतीदृग्लक्षणो ध्याता, धर्मध्यानस्य सम्मतः ।। ४५ ।। अप्रमत्तः प्रमत्तश्च, सदृष्टिर्देशसंयतः । धर्मध्यानस्य चत्वार-स्तत्त्वार्थे स्वामिनः स्मृताः ।। ४६ ।। मख्योपचारभेदेन, धर्मध्यानमिह द्विधा । अप्रमत्तेष तन्मख्य-मितरेष्वौपचारिकम् ।। ४७ ।।
-तत्त्वानुशासने ।। G मुख्योपचारभेदेन, द्वौ मुनी स्वामिनौ मतौ । अप्रमत्तप्रमत्ताख्यौ, धर्मस्यैतौ यथायथम् ।। २५ ।।
अप्रमत्तः सुसंस्थानो, वज्रकायो वशी स्थिरः । पूर्ववित्संवृत्तो धीरो, ध्याता संपूर्णलक्षणः ।। २६ ।। श्रुतेन विकलेनापि, स्वामी सूत्रे प्रकीर्तितः । अधः श्रेण्यां प्रवृत्तात्मा, धर्मध्यानस्य सुश्रुतः ।। २७ ।।
-ज्ञानार्णवे, सर्ग २८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org