________________
१००
ध्यानशतकम्, गाथा-६३
उपशामकनिर्ग्रन्थाः, चशब्दादन्ये वाऽप्रमादिनः, ध्यातारश्चिन्तकाः, धर्मध्यानस्येति सम्बन्धः, ध्यातार एव विशेष्यन्ते - ज्ञानधना ज्ञानवित्ता विपश्चित इत्यर्थः, निर्दिष्टाः प्रतिपादितास्तीर्थकर-गणधरैरिति गाथार्थः ।।६३।।
तत्र मनो (तं नमत०) गृहीताखिलकालत्रयगतजगत्त्रयव्याप्तिः । यत्रास्तमेति सहसा, सकलोऽपि हि वाक्परिस्पन्दः ।। १ ।।। ततो ज्ञानध्यानधनो मौनी शमनाय शमनार्थं क्षपणाय क्षपणार्थं वा उन्मुखः संमुखः कृतोद्यम इत्यर्थः, शमनक्षपणोन्मुखः, एवंविधो मुनिपुङ्गवः, सप्तकोत्तरमोहस्य पूर्वोक्तसप्तकातिरिक्तैकविंशतिप्रकृतिरूपस्य मोहनीयस्य शमनोन्मुखः प्रशमाय क्षपणोन्मुखः क्षयाय वा सद्ध्यानसाधनारम्भं निरालम्बध्यानप्रवेशप्रारम्भं कुरुते, निरालम्बे ध्यानप्रवेशे हि योगिनस्त्रिविधा भवन्ति - यथा प्रारम्भकाः, तन्निष्ठाः, निष्पन्नयोगाश्च, यदाहसम्यग्नैसर्गिकी वा विरतिपरिणतिं प्राप्य सांसर्गिकी वा, क्वाप्येकान्ते निविष्टाः कपिचपलचलन्मानसस्तम्भनाय । शश्वनासाग्रपालीघनघटितदृशो धीरवीरासनस्था, ये निष्कम्पाः (निष्प्राणाः) समाधेर्विदधति विधिनारम्भमारम्भकास्ते ।। १ ।। कुर्वाणो मरुदासनेन्द्रियमनःक्षुत्तर्षनिद्राजयं, योऽन्तर्जल्पनिरूपणाभिरसकृत्तत्त्वं समभ्यस्यति । सत्त्वानामुपरि प्रमोदकरुणामैत्रीभृशं मन्यते, ध्यानाधिष्ठितचेष्टयाऽभ्युदयते तस्येह तन्निष्ठता ।। २ ।। उपरतबहिरन्तर्जल्पकल्लोलमाले, लसदविकलविद्यापद्मिनीपूर्णमध्ये ।
सततममृतमन्तर्मानसे यस्य हंसः, पिबति निरुपलेपः स्यात्तु(सोऽत्र) निष्पन्नयोगी ।। ३ ।। ३४ ।। अव. अथाप्रमत्तगुणस्थाने ध्यानसंभवमाह
धर्मध्यानं भवत्यत्र, मुख्यवृत्त्या जिनोदितम् । रूपातीततया शुक्ल-मपि स्यादंशमात्रतः ।। ३५ ।। xxx जिनोदितं जिनप्रणीतं धर्मध्यानं मैत्र्यादिभेदभिन्नमनेकविधम्, यदाहमैत्र्यादिश्चतुर्भेदं यदाऽऽज्ञादिचतुर्विधम् । पिण्डस्थादि चतुर्धा वा, धर्मध्यानं प्रकीर्तितम् ।। १ ।। तत्रमैत्रीप्रमोदकारुण्य-माध्यस्थ्यानि नियोजयेत् । धर्मध्यानमुपस्कर्तुं, तद्धि तस्य रसायनम् ।। २ ।। आज्ञापायविपाकानां, संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन, धर्मध्यानं प्रकीर्तितम् ।। ३ ।। इति पूर्वमेव प्रदर्शितंस्यात्पिण्डस्थं ध्यानमात्माङ्गसङ्गि, स्वान्तं स्वान्तव्यापरूपं पदस्थम् । रूपस्थं संकल्पितात्मस्वरूपं, रूपातीतं कल्पनामुक्तमेव ।। १ ।। तदेवंविधं जिनोदितं धर्मध्यानम् अत्र अप्रमत्तगुणस्थाने मुख्यवृत्त्या प्रधानतया भवति, तथा रूपातीततया
कृत्वा शुक्लध्यानमपि अंशमात्रतः अत्र गौणतया स्यादेवेति ।। ३५ ।।-गुणस्थानकक्रमारोहे ।। |३] A असंजदसम्मादिवि-संजदासंजद-पमत्तसंजद-अप्पमत्तसंजद-अपुव्वसंजद-अणियट्टिसंजद-सुहुमसांपराइय खवगोवसामएसु धम्मज्झाणस्स पवुत्ती होदि त्ति जिणोवएसादो ।।
-धवलायां - पु. १३, पृ. ७४ ।। B मू. आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ।। ९-३६ ।।
वृ०
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org