________________
धर्मध्याने ध्यातृद्वारम्
देवपूजा गुरुपास्तिः, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानाम्, षट् कर्माणि दिने दिने ।। १।। प्रतिमा - अभिग्रहविशेषा दर्शनप्रतिमाद्या एकादश, यदाहदसणवयसामाइअपोसहपडिमा अबंभसञ्चित्ते । आरंभपेसउद्दिट्ठ वजए समणभूए अ ।। १ ।। श्राद्धव्रतान्यणुव्रतादीनि द्वादश, यदाहपाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । दिसिभोगदण्डसमईअ देसे पोसह तह विभागे ।। २ ।। षट्कर्मादिविस्तरो ग्रन्थान्तरादवसेयः, तथैतेषां पालनात्संभवतीति षट्कर्मप्रतिमाश्राद्धव्रतपालनसंभवं
धर्मध्यानं मध्यममिति। xxx ।। २५ ।। अव. x x xअथ प्रमत्तसंयतगुणस्थाने ध्यानसंभवमाह
अस्तित्वात्रोकषायाणामत्रार्तस्यैव मुख्यता ।
आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता ।। २८ ।। वृ. अत्र प्रमत्तगुणस्थानके मुख्यता मुख्यत्वम् आर्त्तस्य ध्यानस्यैवोपलक्षणत्वाद्रौद्रस्यापि, कस्मात् ?
नोकषायाणां हास्यषट्कादीनाम् अस्तित्वाद् विद्यमानत्वात्, तथा आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता आज्ञादीन्याज्ञापायविपाकसंस्थानविचयलक्षणान्यालम्बनानि आज्ञावालम्बनानि तैरुपेतं च तद्धर्मध्यानं चाज्ञाद्यालम्बनोपेतधर्मध्यानं तस्य, अत्र धर्मध्यानमपि चतुष्पादम्, यथाआज्ञापायविपाकानां, संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन, धर्मध्यानं चतुर्विधम् ।। १ ।। आज्ञा यत्र पुरस्कृत्य, सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदर्थान्, तदाज्ञाध्यानमुच्यते ।। २ ।। रागद्वेषकषायाद्यै-र्जायमानान् विचिन्तयेत् । यत्रापायांस्तदपाय-विचयध्यानमुच्यते ।। ३ ।। प्रतिक्षणं समुद्भूतो, यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स, विपाकविचयो मतः ।। ४ ।। अनाद्यन्तस्य लोकस्य, स्थित्युत्पादव्ययात्मनः । आकृतिं चिन्तयेद्यत्र, संस्थानविचयः स तु ।। ५ ।।
इत्याज्ञाद्यालन्बनोपेतधर्मध्यानस्य गौणता अत्र सप्रमादत्वादुच्यत इति ।। २८ ।। अव. अथ ये प्रमत्तस्था निरालम्बनमपि धर्मध्यानं समहीन्ते, तान् प्रति तनिषेधमाह
यावत्प्रमादसंयुक्त-स्तावत्तस्य न तिष्ठति । धर्मध्यानं निरालम्ब-मित्यूचुर्जिनभास्कराः ।। २९ ।। वृ. जिनभास्करा जिनसूर्या इत्यूचुः इत्येतदेव कथयन्ति स्म, किं तदित्याह - यः
साधुर्यावत्प्रमादसंयुक्तो भवति, तावत्तस्य साधोगोचरे निरालम्बं ध्यानं न तिष्ठतीति निश्चयः, यतोऽत्र प्रमत्तगुणस्थाने मध्यमधर्मध्यानस्यापि गौणतैवोक्ता, न तु मुख्यता, ततोऽत्र निरालम्बनो
त्कृष्टधर्मध्यानस्यासंभव एव ।। २९ ।। अव. अथ यथाऽप्रमत्तस्थ एव मोहनीयकर्मोपशमक्षपणनिपुणः सद्ध्यानारम्भकत्वं कुरुते, तथा श्लोकद्वयेनाह
नष्टाशेषप्रमादात्मा, व्रतशीलगुणान्वितः । ज्ञानध्यानधनो मौनी, शमनक्षपणोन्मुखः ।। ३३ ।। सप्तकोत्तरमोहस्य, प्रशमाय क्षयाय वा । सद्ध्यानसाधनारम्भं, कुरुते मुनिपुङ्गवः ।। ३४ ।।
युग्मम् । वृ० नष्टाशेषप्रमादो निर्धाटिताखिलप्रमादः आत्मा जीवो यस्यासौ नष्टाशेषप्रमादात्मा, व्रतानि महाव्रतादीनि,
शीलगुणा अष्टादशसहस्रशीलाङ्गलक्षणास्तैरन्वितः संयुक्तो व्रतशीलगुणान्वितः, ज्ञानं सदागमाभ्यासलक्षणम्, ध्यानम् एकाग्रतारूपं तद्, ज्ञानं च ध्यानं च धनं सर्वस्वं यस्यासौ ज्ञानध्यानधनः, अत एव मौनी मौनवान्, यतो मौनवानेव ध्यानधनः स्यात्, यदाह -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org