________________
९८
" अथ स क्षपयति निद्रा-निद्रादित्रयमशेषतस्तत्र । नरकगमनानुपूर्वी, नरकगतिं चापि कार्त्स्न्येन ।। १ ।। सूक्ष्मस्थावरसाधा-रणातपोद्योतनामकर्माणि । तिर्यग्गतिनाम तथा तिर्यग्गत्यानुपूर्व्यं च ।। २ ।। चतुरेकद्वित्रीन्द्रिय-नामानि तथैव नाशमुपयान्ति । तिर्यग्गतियोग्यास्ताः प्रकृतय एकादश प्रोक्ताः ।। ३ ।। अष्टौ ततः कषायान्, पण्डकवेदं ततस्ततः स्त्रीत्वम् । क्षपयति पुंवेदे सङ् क्रमय्य षण्णोकषायांश्च ।। ४ ।। पुंस्त्वं क्रोधे क्रोधं, माने मानं तथैव मायायाम् । मायां च तथा लोभे स क्षपयति सङ्क्रमय्य ततः ।। ५ ।। लोभस्य यावद् बादरप्रकृतीवेदयति तावदनिवृत्तिबादरसम्परायसंयताः । ततः सूक्ष्मप्रकृतिवेदनाल्लोभकषायस्य सूक्ष्मसम्परायसंयतः उपशमकः सज्वलनलोभमुपशमयति क्षपकः क्षपयति । यथोक्तम्
" अथ सूक्ष्मसम्पराय - स्थानं प्राप्नोति बादरे लोभे । क्षीणे सूक्ष्मे लोभे कषायशेषे विशुद्धात्मा ।। १ ।। यत् सम्परायमुपजन-यन्ति स्वयमपि च सम्परायन्ति । व्यासङ्गहेतवस्ते-न कषायाः सम्परायाख्याः ।। २ ।। सम्यग्भावपरायण-हेतुत्वाद् वाऽपि सम्परायास्ते । प्रकृतिविशेषाच्च पुन-लोभकषायस्य सूक्ष्मत्वम् ।। ३ ।। सततो विशुद्धियोगे, नयति स्थानान्तरं व्रजंस्तमपि । क्षपयन् गच्छति यावत्, क्षीणकषायत्वमाप्नोति ।। ४ ।। " ततोऽष्टाविंशतिविधमोहनीयोपशमादुपशान्तकषायवीतरागछद्मस्थः वीतो- गतो ( रागो यस्मादिति वीतरागः ) छद्म आवरणं तत्र स्थितः छद्मस्थः मोहनीयस्य कृत्स्त्रक्षयात् स क्षीणकषायवीतरागच्छद्मस्थः ततः क्षीणकषायो धर्मशुक्लाद्यद्वयध्यानविशेषाद् यथाख्यातसंयमविशुद्ध्याऽवशेषाणि कर्माणि क्षपयति । तत्र निद्राप्रचले द्विचरमसमये क्षपयति । ततोऽस्य चरमसमये आवरणद्वयान्तरायक्षयात् केवलज्ञानदर्शनमुत्पद्यत इति । x x x ।। - तत्वार्थ सिद्ध वृत्तौ ।।
B अव० तत्र
वृ०
ध्यानशतकम्, गाथा - ६३ azazazazaza
अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु ।। ३६९ ।। अपुनर्बन्धकस्योपलक्षणत्वात्सम्यग्दृष्टेश्च अयं योगः व्यवहारेण कारणस्यापि कार्यत्वोपचाररूपेण, तात्विकः कारणस्यापि कथंचित्कार्यत्वादिति । किंरूपः सन्नित्याह-अध्यात्मभावनारूपः अध्यात्मरूपो भावनारूपश्च । निश्चयेन निश्चयनयमतेनोपचारपरिहाररूपेण । उत्तरस्य त्वपुनर्बन्धकसम्यग्दृष्ट्यपेक्षया चारित्रिण इति ।। ३६९ ।।
चारित्रिणस्तु विज्ञेयः, शुद्धयपेक्षो यथोत्तरम् ।
ध्यानादिरूपो नियमात्, तथा तात्विक एव तु ।। ३७९ ।।
वृ० चारित्रिणस्तु चारित्रिणः पुनः विज्ञेयः । शुद्धपेक्षो यथोत्तरमुत्तरोत्तरां शुद्धिमपेक्ष्य किमित्याह-ध्यानादिरूपो ध्यानसमतावृत्तिसंक्षयलक्षणो योगः । नियमात् अवश्यतया न त्यन्यस्य । तथा इति
तात्त्विक एव तु तत्त्वरूप इति ।। ३७१ ।।
C अव० अथ देशविरतौ ध्यानसंभवमाह
वृ०
Jain Education International 2010_02
आर्त्तं रौद्रं भवेदत्र, मन्दं धर्म्यं तु मध्यमम् । षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसंभवम् ।। २५ ।। xxx अत्र देशविरतिगुणस्थानके x x x तु पुनर्धर्मध्यानं यथा यथा देशविरतिरधिकाऽधिका स्यात्तथा तथा मध्यमं यावदधिकाधिकं भवति, न तूत्कृष्टं धर्मध्यानं स्यादित्यर्थः, यदि पुनस्तत्राप्युत्कृष्टं धर्मध्यानं परिणमति, तदा भावतः सर्वविरतिरेव संजायते, कथंभूतं धर्मध्यानम् ? षट्कर्मप्रतिमाश्राद्धव्रतपालनसंभवं षट्कर्माणि देवपूजादीनि, यदुच्यते
For Private & Personal Use Only
मु
- योगबिन्दौ ।।
www.jainelibrary.org