________________
धर्मध्याने ध्यातृद्वारम्
९७
“अवगाहते च स श्रुत-जलधिं प्राप्नोति चावधिज्ञानम् । मनःपर्यायं वा, विज्ञानं वा कोष्टादिबुद्धिर्वा ।। १ ।। चारणवैक्रियसर्वो-षधा(व)द्यावापि लब्धयस्तस्य । प्रादुर्भवन्ति गुणतो, बलानि वा मानसादीनि ।। २ ।।" अत्र च श्रेणिप्राप्त्यभिमुख: प्रथमकषायान् दृष्टिमोहत्रयं चाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम उपशमश्रेण्याऽऽभिमुख्यादुपशमयति, क्षपकश्रेण्याभिमुख्यात् क्षपयति । यथोक्तम्"क्षपयति तेन ध्याने-न ततोऽनन्तानुबन्धिनश्चतुरः । मिथ्यात्वं संमिश्रं, सम्यक्त्वं च क्रमेण ततः ।। १ ।। क्षीयन्ते हि कषायाः, प्रथमास्त्रिविधोऽऽपि दृष्टिमोहश्च । देशयतायतसम्यग्दृगप्रमत्तप्रमत्तेषु ।। २ ।। पाणिग्राहारीस्तान्, निहत्य विगतस्पृहो विदीर्णभयः । प्रीतिसुखमपक्षोभः, प्राप्नोति समाधिमत्स्थानम् ।। ३ ।।" इति ।।३७ ।। अव० किञ्चान्यदित्यनेन स्वाम्यन्तरं सम्बध्नातिमू. उपशान्तक्षीणकषाययोश्च ।। ९-३८ ।।
उपशान्तकषायस्य क्षीणकषायस्य च धर्मं ध्यानं भवति ।। ३८ ।।
किञ्चान्यत्वृ. चशब्दः समुच्चये । कषायशब्दः प्रत्येकमभिसम्बध्यते । उपशान्ताः कषाया यस्यासावुपशान्तकषायः
एकादशगणस्थानवर्ती। क्षीणाः कषाया यस्य स क्षीणकषायः । भस्मच्छन्नाग्निवदुपशान्ताः निरवशेषतः परिशटिताः क्षीणा विध्मातहुताशनवदनयोश्च उपशान्तक्षीण-कषाययोरप्रमत्तसंयतस्य च ध्यानं धर्म भवति । तत्रोपशान्तक्षीणकषायस्वरूपनिर्ज्ञानाय अधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयम्, अन्यथा तदपरिज्ञानमेव स्यादिति । अप्रमत्तस्थानादसङ्ख्येयानि विशोधिस्थानान्यारुह्यापूर्वकरणं प्रविशति । समये समये स्थितिघात-रसघात-स्थितिबन्ध-गुणश्रेणि-गुणसङ्क्रमणकरणमपूर्वं निर्गच्छतीत्यपूर्वकरणम्। अप्राप्तपूर्वकत्वाद् वा संसारे तदपूर्वकरणम्। न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशम क्षयो वा । उपशमनाभिमुख्यात् तत्पुरस्कारादुपशमकः क्षपणार्हत्वाच्च क्षपक इति । उक्तं च" स ततः क्षपकश्रेणिं, प्रतिपद्य चारित्रघातिनीः शेषाः । क्षपयन् मोहप्रकृती:, प्रतिष्ठते शुद्धलेश्याकः ।। १ ।। प्रविशत्यपूर्वकरणं, प्रस्थित एवं ततोऽपरं स्थानम् । तदपूर्वकरणमिष्टं, कदाचिदप्राप्तपूर्वत्वात् ।। २ ।।" ततोऽप्युत्तरोत्तरविशोधिस्थानप्राप्त्या अनिवृत्तिस्थानं भवति । परस्परं नातिवर्तन्ते इत्यनिवृत्तयः । परस्परतुल्यवृत्तय इत्यर्थः। सम्परायाः कषायास्तदुदयो बादरो येषां ते बादरसम्परायाः। अनिवृत्तयश्च ते बादरसम्परायाश्च त इत्यर्थः । ते उपशमकाः क्षपकाश्च । तत्र नपुंसकत्रीवेदषट्नोकषायादिक्रमान्मोहप्रकृतीरुपशमकः शमयति"अणदसणपुंसगइत्थिवेयछक्कं च पुरुसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उवसमेइ ।। १ ।।"
[आवश्यकनिर्युक्तौ गा० ११६] क्षपको निद्रानिद्रादित्रयक्षयात् त्रयोदशनामकर्मक्षयाचाप्रत्याख्यानावरणादिकषायाष्टकनपुंसकत्रीवेदक्रमाञ्च क्षपयति। उक्तं च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org